पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८. अष्टमोऽनुवाकः] अध्यादेश: इति चेत् नः सुषुप्तसमाहितयोर प्रहा। सुषुप्तेऽग्रहण मन्यासकवदिति चेत्–न; सर्वाग्रहणात् । जाग्रत्स्वप्रयोरन्ययग्र णात्स त्वमेवेति चेत् - न अविद्याकृतत्वज्जाग्रत्स्वप्नयोः– यदन्यैग्रहणं जाग्रत्स्वप्रयो, तदविद्याकृतम्, विद्याभावेऽभावात् । सुषुप्तेऽग्रहणमप्यविद्याकृतमिति चेत् - न, स्वाभाविकत्वात् ; द्रव्यस्य हि तत्त्वमविक्रिया, परानपेक्षत्वात् ; विक्रिया न तत्त्वं, परापे- क्षत्वात्; न हि कारकापेक्षं वस्तुनस्तत्त्वं, सतो विशेषः कारका- द्वैताग्रहणमात्मनः स्वस्तः सिद्धम् • परमार्थम्, इति विद्वदृष्टया विशिष्टस्यासत्त्वमित्यर्थः । दृष्टान्तेन वैषम्यं शङ्कते–नैवमिति । यथा चन्द्रैकत्वदेर्शिना द्वितीयश्रन्द्रो न गृह्यते, नैवं ब्रह्मविदा न गृह्यते व्यतिरिक्तेश्वरः– प्रतिनि- यतप्रपञ्चावभासस्य भोजनादिप्रवृत्यनुपपत्या जीवन्मुक्तस्याप्यभ्युपगमात् प्रपञ्चप्रतिनियमस्य चेश्वराधीनत्वाभ्युपगमादित्यर्थः । यद्यपि जागरे व्यक्तिरेकाभासदर्शनं विदुषः, तथाऽपि न तद्भयकारणं,--न हि मायावी स्वविरचितव्याघ्राभासाद्धिभेति । अविदुषोऽपि व्यतिरेकदर्शनं न सदातनमित्याह – नः सुषुप्तेति । सुषुप्ते व्यतिरेकाग्रहणम सत्त्वसाधकं न भवतीत्याह- सु- षुप्त इति यथेषुकार इण्वासक्तमनस्तया तव्यतिरिक्तं विद्यमानमपि न पश्यति, तथा सुषुप्तेऽपि निरायाससुखासक्ततया सदपि द्वितीयं न पश्यति, न त्वभावादित्यर्थः । अन्यासक्तस्य तव्यति- रिक्तादर्शनेऽपि तद्दर्शन मेवास्ति, सुषुप्ते तु न ' किंचिदशासिषम्' इति प्रत्ययात् सुखस्याप्या- त्मतादात्म्यात्, अज्ञानस्य च व्यतिरिक्तत्वानिर्वचनात्– अतस्तात्त्विकद्वितीयाभावादेवाग्र- हणमित्याह – न सर्वाग्रहणादिति । सुषुप्ते चेदनुपलम्भादसत्त्वं, तर्हि जाग्रत्स्वप्नयोरु- पलम्भाद्वैतस्य सत्त्वं किं न स्यात् ? — इत्याह - जाग्रदिति । अनात्मादावात्मत्वादिबुद्धिर- विवा—तद्भाव एव द्वैतोपलम्भात्; नोपलम्भमात्रं सस्वसाधकम्, अन्यथा शुक्तिरूप्यादपि सच्चप्रसङ्गादित्याह – नाविद्येति । पूर्ववाह - सुषुप्त इति । सुषुप्ते द्वितीयस्याग्रहणमपि लयरूपाविद्याकृतं, न तु भेदभाव - निबन्धनम्;अतो यदुक्तं सुषुप्ते सर्वात्मकब्रह्मभूतो जीवः स्वव्यतिरिक्तमभावादेव न पश्यतीति, •तदसदित्यर्थः । सतोऽपि द्वितीयस्याविद्यावशादग्रहणमिति कोऽर्थः ? किं ग्रहणप्रागभावो जायते, उताप्रकाशारोपः, किंवा ग्रहणाकाराविकृतस्वरूपावस्थानम् ? नाऽऽद्यः -- प्रागभावस्यानादित्वा- भ्युपगमात् । न द्वितीयः - परैर्द्वितीयस्यास्वप्रकाशतास्वाभाव्याभ्युपगमेना प्रकाशारोपानभ्यु- पगमात्, अप्रकाशारोपे च सर्वस्य स्वप्रकाशब्रह्मात्मताया अभ्युपगन्तव्यत्वेनास्मत्समीहित- ( १ ) द्वैतस्य कदाचिद्रहेऽपि कदाचिद्रहाव्यभिचारायुक्तं मिथ्यात्वमित्यर्थः । (२) अविद्याभावे - Sभावात् – पाठः । ( ३ ) ●दर्शनाती-पाठः । ( ४ ) तुलय – “इषुकारो नरः कश्चिदिषावासक- मानसः । समीपेनापि गच्छन्तं राजानं नावबुद्धवान्” ॥ शान्ति. प. १७८. १२.