पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तैत्तिरीयोपनिषत् [ब्रह्म आनन्द वल्ली सं एव तु स्यात्, तद्भावस्य विवक्षितत्वात्-तनिशानेन परमात्मभावो ह्यत्र देवस्या विद्याकृत- विवक्षितः – “ ब्रह्मविदामोति परम्" इति । न ह्यन्यस्यान्यभा- त्वात्, अद्वैतं वापत्तिरुपपद्यते । ननु तस्यापि तद्भावापाचरनुप्रवेट । न, परमार्थ: अविद्याकृतनात्माऽपोहार्थत्वा -या हि ब्रह्मविद्यया स्वात्मप्रा- तिरुपदिश्यते, साऽविकृतस्यासादिविभोपाल आत्मत्वेनाभ्यारोपितस्याना- त्मनोऽपोहार्था । कथमेवमर्थता ऽवगम्यते? विद्यामात्रोपदेश - विद्यायाश्च दृष्टं कार्यमविद्यानिवृत्तिः तच्चेह विद्यामात्रमात्मप्राप्तौ साधनमुपदिश्यते । मार्ग- विशनोपदेशवदिति चेत्, तदात्मत्वे विद्यामात्रसाधनोपदेशोऽहेतुः । कस्मात् ? देशान्तरप्राप्तौ मार्गविज्ञानोपदेशदर्शना न हि ग्राम एवं गन्ता -इति चेत्न, वैधर्म्यात् । तत्र हि ग्रामविषयं विज्ञानं नोपदिश्यते, तत्प्राप्तिमार्गवि- षयमेवोपदिश्यते विज्ञानम्; न तथेह ब्रजविज्ञानव्यतिरेकेण साधनान्तरविषयं विज्ञानमुपदिश्यते । उक्तकर्मादिसाधनापेक्षं ब्रह्मविज्ञानं परप्राप्तौ साधनमुपदि- श्यत इति चेत् –न; नित्यत्वान्मोक्षस्येत्यादिना प्रत्युक्तत्वात् ; श्रुतिश्च “तत्सृष्ट्वा तदेषानुप्राविशत्” इति कार्यस्थस्य तदात्मत्वं दर्शयतिः अभयप्रतिष्ठोपपत्तेश्च– अभेदपक्ष एवाभय- यदि हि विद्यावान्स्वात्मनोऽन्यन्न पश्यति, ततः "अभयं प्रतिष्ठोपपत्तिः प्रतिष्ठां विन्दते ” इति स्यात्, भयहेतोः परस्यान्यस्याभा- वात्; अन्यस्य चाविद्याकृतत्वे, विद्ययाऽवस्तुत्वदर्शनोपपत्तिः; तद्धि द्विती- यस्य चन्द्रस्यं सत्त्वं, यदतैमिरिकेण चक्षुष्मता न गृह्यते । नैवं न गृह्यत " विचारारभ्भमुपपाय, सिद्धान्तमुपक्रमते- स एव तु स्यादिति । औपाधिकभेदभि- श्रोऽप्येववित्स्वतः पर एव स्यादित्यर्थः । अवियाध्यारोपिता ब्रह्मत्वव्यावृत्तिरेव ब्रह्मप्राप्तिर्विव- क्षितेति फलवाक्यस्यैवमर्थता कथमवगम्यते न पुनरप्राप्त प्राप्तिः ? इत्याह- कथामति । परिहरति — विद्यामात्रेति । अन्यथाऽभ्युपपत्तिं शङ्कते - मार्गेति । गन्तुः स्वतो ग्रामत्वा- भावेऽपि, यथा मार्गज्ञानोपदेशः सार्थकतया जीवस्य स्वतो ब्रह्मत्वाभावेऽपि, वियोपदेशाऽभ्या- सद्वारेण ब्रह्मप्राप्तिहेतृत्वात्, इत्यर्थः । 'त्वं ग्रामोऽसि ' इति न तत्रोपदेशः, अत्राभेदोपदेशः प्रतीयते, अत उपदेशवैषम्यान्न दृष्टान्तो युक्त इत्याहन वैधयदिति । यदि विदुषः सकाशादन्य ईश्वरो भयहेतुर्नास्ति, का तर्हि गतिर्व्यतिरिक्तेश्वरदर्शनस्य इत्याश- ङ्कयाऽऽह - अन्यस्य चेति । कल्पितभेदविशिष्टरूपेणेश्वरस्याविषाकृतत्वे - मिथ्यात्वे सति, विद्यया तत्रावस्तुत्वदर्शनमुपपद्यते – ईश्वरो मम प्रशास्त्रेति मिथ्यैतयतः, तस्य मम चैकात्म्यमेव ( १ ) जीवस्य सदा ब्रह्मभावे " ब्रह्म वेद ब्रह्मैव भवति ?” इति श्रुतिरनुपपन्नेति शंकते । ( २ ) ० वाता- दाम्या ॰ - पाठः । ( ३ ) °न्द्रस्यास ० इति पाठः ।