पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ अष्टमोऽनुवाकः ] आह्वानम् १०९ न्योऽसावन्योऽहमस्मीति । न स वेद "; " एकमेवाद्वितीयम्”, “ तत्त्वमर्सिं इति । अथ स एवं “ आनन्दमयमात्मानः पसंक्रामति " -इति कर्मकर्तृत्वा- नुपपत्तिः, परस्यैव च संसारित्वं, पराभावों वा । यधुभयथा प्राप्तो दोषो न परि- हर्तुं शक्यत इति, व्यर्था चिन्ताः अथान्यतरस्मिन्पक्षे दोषाप्राप्तिः, तृतीये वा पक्षेऽदुष्टे, स एव शास्त्रार्थः - इति व्यथैव चिन्ता | - न, तन्निर्धारणार्थत्वात् । सत्यं, प्राप्तो दोषो न शक्यः परिहर्तुमन्यतरस्मिन्; तृतीये वा पक्षेऽदुष्टेऽवघृते व्यर्था चिन्ता स्यात् न तु सोऽबघृत इति तद- वधारणार्थत्वादर्थवत्येवैषा चिन्ता | सत्यम्, अर्थवती चिन्ता, शास्त्रार्थावधा- रणार्थत्वात् ; चिन्तयसि च त्वं, न तु निर्णेप्यास । किं न निर्णेतव्यमिति वेदवचनम् ? न । कथं तर्हि ? बहुप्रतिपक्षत्वात् एकत्ववादी त्वं, वेदार्थपर- त्वात्; बहवो हि नानात्ववादिनो वेद्बाह्यास्त्वत्प्रतिपक्षाः; अतो ममाऽऽशङ्का- न निर्णेष्यसीति । एतदेव मे स्वस्त्ययनं – यन्माः कयोगिनमनेकयोगिबहुप्रतिपक्षमात्थ । अतो वादयुयुत्सासमुत्साइः जेष्यामि सर्वान्; आरभे च चिन्ताम् । त्वमात्थ ब्रूषेऽविप्रतिपन्नवस्तुवादित्वात् —–अनेकत्ववादिनोऽप्येकस्य वस्तुनः संमतत्वात्, अने- कवस्तुवादिनश्च बहवः प्रतिपक्षाः सन्ति ममेत्यर्थतोऽपि कल्याणम् – अनेकत्वस्यान्योन्या- श्रयादिदोषदुष्टत्वात्, पूर्वपक्षनिराकारणेन सिद्धान्तोपपत्तेश्चेत्यर्थः । (१) बृ. उ. १.४.१०. ( २ ) छां. उ. ६.२.१. (३) छां. उ. ६. ८. ७. ( ४ ) पक्षत्रयेऽपि दोषस्य सत्त्वात्, अदुष्टपक्षनिर्धारणार्थं विचारः कर्तव्य इत्यर्थः । ( ५ ) " ननु सर्वे वादिनः द्वैतमेव परमा- र्थमवलम्बन्ते, युक्तिभिश्च बह्वीभिस्तदेवोपपादयन्ति, तथैव सर्वैरनुभूयते च, श्रुतिमपि द्वैतानुगुण्येनैव योजय- न्ति । भवानेक एव तु अद्वैतं परमार्थ ब्रूते । अतो बहुप्रतिपक्षत्वात् त्वत्पक्षे कथं विश्वासः स्यात् ?–इत्या- शङ्कयाह ~न वादिबहुत्वैकत्वं वस्तुनिर्णये प्रयोजकम्, किंतु प्रमाणयुक्तिबाहुल्यमेव । नहि अन्धानां सहस्रं चक्षुष्मत एकस्य रूपविषये प्रतिवादी भवितुमर्हति । प्रमाणयुक्तिबाहुल्यं च अस्मत्पक्ष एव । इतरत्र च प्रमाणयुक्त्याभास बाहुल्यम् । ।" - हरितत्त्वमुक्तावली. २८. ज्ञानी कामानेति सर्वान् रसो वै स इति श्रुतम् । ब्रह्मानन्दं स्फुटीकर्ते मीमांसाऽऽनन्दगोच्यते ॥१३१॥ संपूर्णो मानुषानन्दः सार्वभौमे गुणैर्युते । हिरण्यगर्भे संपूर्णो देवानन्दोऽवधीहि तौ ॥ १३२ ॥ मध्यस्थे पूर्वपुण्यानामुत्कर्षांद्व ते सुखम् । सर्वेषां यत्सुखं तत्तु निष्कामे ज्ञानिनीष्यते ॥ १३३ ॥ सर्वकामाप्तिरेषाथ रसाख्यानन्द उच्यते । अध्यात्ममधिभूतं चाधिदैवं चैक एव सः ॥ १३४ ॥ सर्वे स्वस्वपदे तृप्ताः कामयन्ते न तत्पदम् । ज्ञानी तु दोषदृष्टयात्र निष्कामस्तैः समस्ततः ॥ १३५ ॥ - तैत्तिरीर कवियांप्रकाशः