पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ अष्टमोऽनुवाक: ] ब्रह्मज्ञानमेव ब्रह्मप्राप्तिः पसंक्रमणम्. आनन्दैक्यवेदनफलं स य॑ ए॒व॒वित् । अस्माल्काप्र॒त्य । एतमन्न- विदुषः कोशपञ्चको- मयमात्मानमुप॑संक्रामति । एतं प्राणमयमा- त्मानमुप॑संक्रामति । एतं मनोमयमात्मानमुपै- संक्रामति । एतं विज्ञानमयमात्मानमुप॑संक्रा मति । एतमानन्दमयमात्यातसुर संक्रामति । चेत्पुरुषगतविशेषोपमदन परमानन्दमपेक्ष्य समो भवति, न कश्चिदुत्कर्षोऽपक- ष वा तां गतिं गतस्येति 'अभयं प्रतिष्ठां विन्दते' इत्युपपन्नम् । अस्ति नातीत्यनुप्रश्नो व्याख्यातः- कार्यरसलाभप्राणनाभयप्रतिष्ठाभयदे- पूर्वोत्तरप्रन्थसंमतिः र्शनोपपत्तिभ्यो ऽस्त्येव तदाकाशादिकारणं ब्रह्मेत्यपाकृतोऽनु- प्रश्न एकः । द्वावन्यावनुप्रश्नौ विद्वदविदुषोर्ब्रह्मप्राप्त्यप्राप्तिविषयौ । तत्र विद्वान् समश्नुते न समश्नुत इत्यनुप्रश्नोऽन्त्यः तदाकरणायोच्यते । मध्यमोऽनुप्र- श्रोऽन्त्यापाकरणादेवापाकृत इति तद्पाकरणाय न यत्यते । स यः कश्चिदेवं यथोक्तं ब्रह्म, उत्सृज्योत्कर्षापकर्षम्, अद्वैतं, सत्यं, ज्ञानमन- १०७ शिरः पाण्यादिमति पुरुषे प्रतिबिम्बित इति परमानन्दमपेक्ष्य समत्वं विशिटयोः स्वभावै क्यं – विवक्षितमित्यर्थः । वृत्तानुवादपूर्वकमुत्तरग्रन्थमवतारयति - अस्ति नास्तीति । संदिग्धं सप्रयोजनं च विचारमर्हति - (१) आदित्यमण्डलस्थब्रह्मणस्तत्पदार्थस्य साक्षिणा त्वंपदार्थेनैक्यमध्यारोपितोत्कर्षापकर्षकारणाविद्यानिराक- रणेनात्र बोध्यते । ततश्चादित्याधारत्वात्तदर्थस्योत्कृष्टत्वं त्वमर्थस्य चान्तःकरणाधिकरणत्वेन रागादिकलुषित - त्वान्निकृष्टत्वम् – इत्याशंका न कर्तव्या | यथा यः सर्पः, स रज्जुरित्युच्यते; तथा बुद्धिस्थमपकृष्टत्वेन कल्पितं त्वंपदार्थमनूद्यादित्यमण्डलस्थेन प्रकृष्टतया कल्पितेन तत्पदार्थेनैक्यमत्र बोध्यते; तथा चोत्कर्षापकर्षहीने सच्चि- दानन्दात्मकं वस्तु परिशिष्टं भवतीत्यर्थः । ईश्वरो हि जीवगतमपकृष्टत्वमपेक्ष्य स्वयमुत्कृष्टये व्यपदिश्यते । तच्च जीवगतमपकृष्टत्वं जीवानुवादेन तस्य ब्रह्मणा विशेष्यत्वे व्यावर्तते । ब्रह्म हि जीवस्य विशेषणं तद्गतमपकृष्टत्वं बलादेव बाधते । उत्कृष्टस्य निकृष्टं प्रति विशेषणत्वायोगाज्जीवगतापकर्षनिवृत्तौ च ब्रह्म स्वगतमुत्कर्षं परित्य- जति; तस्यापकर्षसापेक्षत्वात् । उत्कर्षापकर्षनिवृत्तावात्मनो ब्रह्मत्वं ब्रह्मणश्चात्मत्वं सिध्यति । (२) तै. उ. २. ७. ( ३ ) ॰ यहेतुद॰ इति पाठः । ( ४ ) विचारो हि प्रमाणन्यापारस्य फलावसानत्वनिश्चयहेतुस्तकं, सच प्रमेयमन्तरेण न प्रसरमुपलभते, प्रमितं च न बाध्यते इति सदस्तुसिद्धिः । कोटयन्तरस्फुरणं विना न संशयावतारः, तेन विना न विचारप्रवृत्तिः, तामृते न वस्तुतत्त्वनिर्णयः, तेन च विना न पुरुषार्थलाभः- इति विचारार्थतया यथाप्रतिषन्नं द्वैतमभ्युपगतं, न प्रामाणिकत्वेन; — तथा च भुजङ्गं रज्जुत्वेन व्यवहरत इव, अतत्त्वं तत्त्वबुध्द्या व्यवहरतोऽनर्थप्राप्तिसं भवात्, तत्परिहाराय विचारेऽवश्यम्भाविनि क्रियमाणे, सर्वेषु विशे-