पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तैत्तिरीयोपनि [ ब्रह्म-आनंन्द-वल्ली ननु तन्निर्देशे ' स यश्चायं पुरुषे ' इत्यविशेषतोऽध्यात्मं न युक्तो निर्देशः, यश्चार्य दक्षिणेऽक्षन् ' इति तु युक्तः, प्रसिद्धत्वात् । न, पराधिकारात्– परो ह्यात्माऽत्राधिकृतः " अश्येऽनात्म्ये... भीषाऽस्माद्वातः पवते... सैषाऽऽन- न्दस्य मीमांसा' इति न होकस्मादप्रकृतो युक्तो निर्देष्टुम्, परमात्मविज्ञानं च "विवक्षितम्, तस्मात्पर एव निर्दिश्यते ' स एकः' इति; ननु ' आनन्दस्य मी- मांसा' प्रकृता, तस्या अपि फलमुपसंहर्तव्यम्-अभिन्नः स्वाभाविक आनन्दः परमात्मैव, न विषयविषयिसंबन्धजनित इति; ननु तदनुरूप एवायं निर्देश: 'स यश्चायं पुरुषे यश्वासावादित्ये स एकः' इति भिन्नाधिकरणस्थविशेषो- पमर्देन । नन्वेवमपि 'आदित्य' विशेषग्रहणमनर्थकम् । नानर्थकम् – उत्कर्षापक- षापौहार्थत्वा -द्वैतस्य हि मूर्तामूर्तलक्षणस्य पर उत्कर्षः सवित्रन्ततः स विषयविषयभावाभिप्रायम्, –'अदृश्येऽनात्म्य उदरमन्तरं कुरुते' इत्यादिना निषेधा- दित्यर्थः । मीमांसंया निरतिशयानन्दं ब्रह्मास्तीति निर्धारितम् । तस्याकामहतप्रत्यक्षत्वाभिधानाद- भेदसिद्धिः—न हि परानन्दः परस्य प्रत्यक्षो भवति, तस्मानिरतिशयानन्दननैकत्वं जीवस्य 'ब्रह्मविदाप्नोति परम्' इत्युपकान्तं, मीमांसया च सिद्धमुपसंहियत इत्यर्थः । 'आदित्य' ग्रहण- स्याऽधिदैविकोपाधिलक्षणार्थस्याविवक्षितत्वं दर्शयितुं चोधमुद्भावयति नन्विति । “य एष एतस्मिन्मण्डले पुरुषैः” “योऽयं दक्षिणेऽक्षन्पुरुषः” इत्यादौ श्रुत्यन्तरे मण्डलस्थस्य दक्षिणा- क्षिस्थेनैक्यस्य प्रसिद्धत्वात् इहाप्यादित्यस्थेनैक्यनिर्देशे दक्षिणाक्षिग्रहणं युक्तमित्यर्थः । अध्यात्ममधिदैवतं च लिङ्गात्मोपासनविवक्षायां तथा स्यात्, नेह तद्विवक्षितमित्याह – न परेति । य एव चिद्धातुर्निरतिशयानन्द उत्कृष्टोपाचौ प्रतिबिम्बितः स एव निकृष्टोपाधौ एवोत्पत्तेः, तस्मिन्नेव अवस्थानात्, पुनस्तत्रैव लयात्, मृदुत्पत्तिस्थितिलयकस्य वटादे: मृदभेदवत् कारणब्रह्ममात्रतया अवान्तरवाक्योक्तं ब्रह्मणोऽद्वितीयत्वं संभावयामासुः । तत्सृष्ट्वा । तदेवानुप्राविशत् " 66 " ( २.६. ) इत्याद्याः श्रुतयः ब्रह्मण एव जीवरूपेण प्रवेशं ब्रुवन्त्यः, न तु बहिः स्थित्वाऽन्तर्गृहे प्रविष्ट- देवदत्तवत्, जीवब्रह्मणोः अभेदं महावाक्यप्रतिपाद्यं संभावयामासुः । तथा नियमनश्श्रुतिश्च “ भीषाऽस्मा- द्वातः पवते ” ( २. ८. ) इत्याद्या अत्यन्तभेदे नियाम्यनियामकभावानुपपत्तेः, तयोरभेदमेव संभावयति । तथा सवा एष पुरुषोऽन्नरसमय: ” (२.१.) इत्याद्याः तत्त्वंपदार्थपरिशोधनरूपाः श्रुतयः जीवे - श्वरोभयगतविरुद्धधर्मनिरासद्वारा तयोरक्यमेव संभावयन्ति । तथा “ ब्रह्मविदाप्नोति परम् ” ( २ . १ . ) इत्याद्याश्च अभेदज्ञानस्य निरतिशयफलप्रदर्शनेन अभेदस्य विवक्षितत्वं ज्ञापयन्त्यस्तमेव संभावयन्ति । इत्थं सृष्टिस्थितिप्रलयप्रवेशनियमनतत्त्वंपदार्थफलप्रतिपादकैः सप्तविधार्थवादैरनुगृहीतं सन्महावाक्यमवा- न्तरवाक्यसहितं ब्रह्मणोऽद्वितीयत्वं, प्रत्यगात्मनस्तद्रूपत्वं च प्रतिपादयति । ( १ ) तुलय—संक्षेप. शा. १. २४–६. (२) तै. उ. २. ७. (३) बृ. उ. २.३.३. (३) बृ उ. २..३.५...