पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ रारानुवाद: ] ब्रह्म निराशयानन्दम् देवगन्धर्वानन्दः ते ये शतं मनुष्यगन्धर्वाना॑मान॒न्दाः । स एको दे- वगन्धर्वाणा॑मान॒न्दः । श्रोत्रियस्य नाकामहतस्य । ते ये शतं देवगन्धर्वाना॑मान॒न्दाः । स एक पि- तृणां चिरलोकलोक नामानन्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । आजानजदेवानन्दः ते ये शतं पितृणां चिरलोकलोकाना॑मान॒न्दाः । स एक आजानजानां देवाना॑मान॒न्दः ( २ ) ।, श्रोत्रियस्य चाकाम॑हत॒स्य । चिरलोकलोक- पित्रानन्दः कर्मदेवानन्दः ते ये शतमाजानजानां दे॒वाना॑मान॒न्दाः । स एकः कर्मदेवानां देवाना॑मान॒न्दः । ये कर्मणा देवान॑पिय॒न्ति । श्रोत्रियस्य चाकाम॑हत॒स्य | विशेषतः शतगुणेनाऽऽनन्दोत्कर्ष उपपद्यते । प्रथमं त्वकामहताग्रहणं - मनु व्यविषयभोगकामानभिहतस्य श्रोत्रियस्य मनुष्यानन्दाच्छत गुणेनाऽऽनन्दो- त्कर्षो मनुष्यगन्धर्वेण तुल्यो वक्तव्यः– इत्येवमर्थम् । 'साधुयुवाऽध्यायकः' आनन्दप्राप्ति - इति श्रोत्रियत्वांवृजिनत्वे गृहोते । ते ह्यविशिष्टे सर्वत्रः अका- साधनत्रयम् महतत्वं तु विषयोकर्षापवर्षतः सुखोत्कर्षापकर्षाय विशे- भ्यते । अतः 'अकामहतग्रहण.. ' - तद्विशेषतः शतरणसुखोत्कर्षोपलब्धेः- अकामहतत्वस्य परमानन्द प्राप्तिसाधनत्वविधानार्थम् । व्याख्यातमन्यत् । देवगन्धर्वा जातित एव । चिरलोकलोकानामिति पितॄणां विशेषणम्- चिरकालस्थायी लोको येषां पितॄणां ते चिरलोकलोका इति । 'आजान: ? इति देवलोकः, तमिन्नाजाने जाता: “ आजानजाः ' देवाः स्मार्तकर्मविशेषतो देवस्थानेषु जाताः । कर्मदेवा ये वैदिकेन कर्मणाऽग्निहोत्रादिना केवलेन देवानपियन्ति । 'देवाः ' नन्दभोगभागी चेति–ततो मनुष्यगन्धर्वानन्देन तुल्यमानन्दं तस्य दर्शयितुं प्रथमपर्याये तदग्रहणमित्यर्थः । 'असृजिनत्वम्' अपापत्वं- यथोक्तकारित्वं-तत्साधुपदाल्लभ्यत इत्यर्थः । (१) तुलयबृ. उ. ४. ३. ३३. (२) वर्धतया विशिष्यते-पाठः । (३) वापीकूपतटाकादि । (४) समुच्चय -( कर्मोपासना ) कारिणो देवयानमार्गगामिनः | [1]