पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२ तैत्तिरीयोपनिषत् मानुषानन्दः युवा स्यात्साधुयु॑वाऽध्या॒ायकः । आशिष्ठो दृढिष्ठो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुषं आन॒न्दः । मनुष्यगन्धर्वानन्दः ते ये शतं मानुष आन॒न्दाः ( १ )स एको मनु- ष्यगन्ध [णा॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य | [ ब्रह्म- आनन्द - वल्ली निरस्ते त्वविद्याकृते विषयविषयिविभागे, विद्यया स्वाभाविकः परिपूर्ण एक. आनन्दोऽद्वैतो वतीत्येतमर्थ विभावयिष्यान्नाह - मानुषानन्दः युवा प्रथमवयाः । साधुयुवेति साधुश्वासौ युवा चेति यूनो विशेषणम्- युवाऽप्यसा धुर्भवति, साधुरप्ययुवा, अतो विशेषणम्- 'युवा स्यात्साधुयुवा ' इति; अध्यायकोऽधीतवेदः आशिष्ठ आशास्तृतमः; दृढिष्टो दृढतमः, बलिष्ठो बलवत्तमः; नवमाध्यात्मिक साधनसंपन्नः । तस्येयं पृथिव्युर्वी सर्वा वित्तस्य – वित्तेन, उपभोगसाधनेन दृष्टार्थेनादृष्टार्थेन च कर्मसाधनेन- संपन्ना पूर्णा, - राजा पृथिवीपतिरित्यर्थः । तस्य च य आनन्दः, स एको मानुषो मनुष्याणां प्रकृष्ट एक आनन्दः । तस्योत्कृष्टत्वे निमित्तम् ते ये शतं मानुषा आनन्दाः, स एको मनुष्यगन्धर्वाणामानन्द:- मानुषा- मनुष्यगन्धर्वानन्दः नन्दाच्छतगुणेनोत्कृष्टो मनुष्यगन्धर्वाणामानन्दो भवति । म नुष्याः सन्तः कर्मविद्याविशेषाद्द्वन्धर्वत्वं प्राप्ताः ' मनुष्यगन्धर्वाः । ते ह्यन्तर्धा- नादिशक्तिसंपन्नाः सूक्ष्मकार्यकरणाः; तस्मात्प्रतिघाताल्पत्वं तेषां, द्वंद्वप्रतिघातशक्तिसाधनसंपत्तिश्च ततोऽप्रतिहन्यमा- नस्य प्रतीकारवतो मनुष्यगन्धर्वस्य स्याञ्चित्तप्रसादः, तत्प्रसाद विशेषात्सुख- विशेषाभिव्यक्तिः । एवं पूर्वस्याः पूर्वस्या भूमेरुत्तरस्यामुत्तरस्यां भूमौ प्रसाद- माणवत्—इति ब्रह्मानन्दानु॒गमाथों लौकिकोपन्यास इत्यर्थः | विषयेभ्यो व्यावृत्ता व्याट- "तविषया अविषयब्रह्मात्मैकत्वदर्शिनस्तद्बुद्धिगोचर इत्यर्थः । प्रकारान्तरेण ब्रह्मानन्दानुग- ममाह — लौकिकोऽपीत्यादिना । . मनुष्यगन्धर्वानन्दस्योत्कृष्टत्वे निमित्तमाह - ते ह्यन्तर्धानादीति । प्रथममकामह- वाग्रहणस्य तात्पर्यमाह - प्रथममिति । यदि प्रथमपर्याय एवाकामहतो गृहयेत, तदा तस्यैव सार्वभौमानन्देन तुल्य आनन्दः स्यात, तदा च व्याघातो भवेत् – मानुषानन्दे निस्पृहो मानुषा- (१) आयुतमः-पाठः । (२) • तमः क्षिप्रकारिषु मध्ये स्वयप्रतिशयत्वादित्यर्थः । दृ°-पाठः । (३) द्वंद्वानां प्रविधाते प्रतिक्षेपे शक्तिश्व साधनानि च तेषां संपत्तिः सामग्रीति यावत् । (४) अनुमानार्थः पाठः ।