पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ अष्टमोऽनुवाक: ] आनन्दमीमांसा सैषाऽऽनन्दस्य मीमांसा भवति । न्द्रश्च । मृत्युर्धावति पञ्चम इति । वातादयो हि महार्हाः स्वयमीश्वराः सन्तः पवनादिकार्येष्वायासबहुलेषु नियताः प्रवर्तन्ते । तद्युक्तं प्रशास्तरि सत्यन्यस्मिन्नियमेन तेषां प्रवर्तनम्; तस्मादस्ति भयकारणं तेषां प्रशास्तृ ब्रह्म, यतस्ते भृत्या इव राज्ञोऽस्माद्ब्रह्मणो भयेन प्रवर्तन्ते; तच्च भयकारण- मानन्दं ब्रह्म॑ ॥ तस्यास्य ब्रह्मण आनन्दस्यैषा मीमांसा विचारणा भवति । किमानन्दस्य ब्रह्मानन्दो जन्यः मीमांस्यमिति ? उच्यते - किमानन्दो विषयविषयसंबन्धजनितो स्वाभाविको वा ? लौकिकानन्दवत्, आहोस्वित्स्वाभाविकः ? – इत्येवमेषाऽऽनन्दस्य मीमांसा | तत्र लौकिक आनन्दो बाह्याभ्यात्मिकसाधनसंपत्तिनिमित्त उत्कृष्टः । स य विषयानन्दद्वारा एष निर्दिश्यते ब्रह्मानन्दानुगमार्थम् । अनेन हि प्रसिद्धेनाऽऽन- ब्रह्मानन्दानुगमः न्देन व्यावृत्तविषयबुद्धिगम्य आनन्दोऽनुगन्तुं शक्यते । लौकि कोऽप्यानन्दो ब्रह्मानन्दस्यैव मात्रा - अविद्यया तिरस्क्रियमाणे विज्ञाने, उत्कृ ध्यमाणायां चाविद्यायां, ब्रह्मादिभिः कर्मवशाद्यथाविज्ञानं विषयादिसाधनसं- बन्धवशाच विभाव्यमानश्च लोकेऽनवस्थितो लौकिक: संपद्यते; स एवा- विद्याकामकर्मापकर्षेण मनुष्यगन्धर्वाद्युत्तरोत्तर भूमिष्वका महतविद्वच्छ्रोत्रि- यप्रत्यक्षो विभाव्यते – शतगुणोत्तरोत्तरोत्कर्षेण यावद्धिरण्यगर्भस्य ब्रह्मण आनन्द इति । तच भयकारणं ब्रह्मानन्दरूपमुक्तं “यदेष आकाश आनन्दो न स्यात्” इति, अत्राऽऽन- न्दश्च लोके जन्यः प्रसिद्धः, ततो विचारमारभते – तस्यास्येत्यादिना । ब्रह्मानन्दस्य चेन्मीमांसा प्रस्तुता, किमर्थस्तहिं सार्वभौमानन्दा थुपन्यासः ? तत्राऽऽह- तत्र लौकिक इत्यादिना । लौकिक आनन्दः क्वचित्काष्ठां प्राप्तः, सातिशयत्वात्, परि-, ( १ ) समाप्तायुषां निकटे धावतीत्यर्थः । (२) ज्ञातेऽपि कर्मकाण्डार्थे वेदान्तार्थमजानतः । जन्मादिभीर्भवत्येव वाय्वादीनां यथा तथा ॥ १२९ ॥ वायुः सूर्यो वह्निरिन्द्रो मृत्युश्चातीतजन्मनि । धर्मज्ञा अप्यतत्त्वज्ञा इदानीं बिभ्यतीश्वरात् ॥ १३० -तैत्तिरीय कटियाप्रकाशः + (३) ' युवा स्यात्साधुयुवा ’ इत्यादिना वक्ष्यमाणा सार्वभौमं मनुष्ययुवानन्दमारभ्य ब्रह्मानन्दावसाना एषा संनिह्निता आनन्दस्य तारतम्यमीमांसा 'सैषा ' इत्युक्ता । (४) तै. इ. २. ७ः