पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ अष्टमोऽनुवाकः अ॒षाऽस्मा॒द्वात॑ः पवते । अ॒षोदे॑ति॒ सू॒र्यः । भीषाऽस्मादग्वि॑िश्वेन्द्रश्च । मृत्युर्घावति पञ्च॑म इति ॥ द्विद्वानप्यविद्वानेवासौ, योऽयमेकमभिन्नमात्मतत्त्वं न पश्यति । उच्छेदहेतुदर्श- नाद्धधुच्छेद्याभिमतस्य भयं भवति; अनुच्छेद्यो धुच्छेदहेतुः तत्रासत्युच्छेद- तांबुच्छेद्ये न तद्दर्शनकार्य भयं युक्तम् । सर्वे च जगद्भयवद्दृश्यते । तस्मा- जगतो भयदर्शनाद्गम्यते नूनं तदस्ति भयकारणमुच्छेदहेतुरनुच्छेद्यात्मकं, यतो 'जगद्विभेतीति । तदेतस्मिन्नप्यर्थ एष श्लोको भवति । इति श्रीमत्परमहंस परिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्य श्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषदि ब्रह्म - - आनन्द -वल्लीभाष्ये सप्तमोऽनुवाकः ॥ ७ ॥ भीषा भयेन अस्माद्वातः पवते । भीषोदोते सूर्यः । भीषाऽस्मादग्निश्चे- " दासोऽहं तस्य देवस्य, ममाऽऽराध्यः परमेश्वरः- इति भेदं विद्वान्कथमज्ञ उच्यते ? तत्राऽऽ — असौ योऽयमिति । यथा चन्द्रभेदं पश्यन्नप्यविद्वानुच्यते—अतत्त्वदर्शित्वात् - तथेत्यर्थः । कथं तर्हि तस्य भयसंभावनेत्यत आह - उच्छेदेति । संहर्ता हि परमेश्वरो मां संहरिष्यति, नरके वा निक्षेप्स्यतीति पश्यतो भयं भवतीत्यर्थः । ब्रह्मैवोच्छेदहेतुः कृतं इत्यत आह — अनुच्छेद्यो हीति । उच्छेदहेतोरप्युच्छेयत्वेऽनवस्थाप्रसङ्गानित्यत्वं वक्तव्यं, तच ब्रह्मणः, नान्यस्य संभाव्यत इत्यर्थः । इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छुद्धानन्दशिष्यानन्दज्ञानविरचिते तैत्तिरीयोपनिष- च्छांकरभाष्यीटप्पणे ब्रह्म आनन्द वल्लयां सप्तमोऽनुवाकः ॥ ७॥ ( १ ) ० तावनुच्छेद्ये त°—इति पाठः । ( २ ) ? भवेत्तु ब्रह्मसत्ताऽस्मिन्नानन्दोऽस्ति कथं शृणु । आनन्दोऽत्राभ्युपेतव्यो रसवान्मधुरादिवत् ॥ १२१ ॥ मूढस्य मधुरादिः स्याद्रसो ब्रह्म विवेकिनः | मधुरादिभुगानन्दी ब्रह्मविच्च तथा सुखी ॥ १२२ ॥ ब्रह्मानन्दो न चेदत्र देहं को नाम चेष्टयेत् । प्राणाक्षाणां चेष्टकत्वं न तत्र करणत्वतः ॥ १२३ ॥ न केवलं चेष्टकत्वं विषयानन्दहेतुता । अप्यल्पविषयान् लब्ध्वा स्वानन्दे मज्जति क्षणम् ॥ १२४ ॥ विषयानन्दपर्यन्तैः कामसृष्ट्यादिहेतुभिः । ब्रह्मसत्त्वे स्थिते मुक्तिश्चिन्त्यते विद्वदज्ञयोः ॥ १२५ ॥ विद्वान् ब्रह्मेति मुक्तश्चेन्मुच्येताशोऽप्यभिज्ञवत् । ब्रह्मरूपोऽपि बद्धश्चेदज्ञोऽभिज्ञोऽपि बध्यते ॥ १२६ ॥ मैवं ब्रह्मात्मैक्यबोध एवैको मोक्षकारणम् । ऐक्यदर्शी मुच्यतेऽतो भेददर्शी न मुच्यते ॥ १२७ ॥ ऊर्ध्वीकारे समेऽप्यस्मिंश्चोरदर्शी बिभेति हि । स्थाणुदर्शी निर्भयोऽतस्तत्त्वबोधः प्रयोजकः ॥ १२८ ॥ तैत्तिरीयकविद्याप्रकाशः