पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्म आनन्दहेतुः यद्वै तत्सुकृतम् | र॑सो वै सः । रस ह्येवायं लब्ध्वाऽऽन॑न्दी भवति । • ससमोऽनुवाकः ] ९७ को होवान्यत्कः प्राण्यात् । यदेष आकाश आन॑न्दो न स्यात् । एष ह्येवाऽन॑न्दया॒ाति । नेत्याह – तदसच्छब्दवाच्यं स्वयमेवाऽऽत्मानमेवाकुरुत कृतवत् । यस्मादेव, तस्मात्तद्ब्रह्मैव सुकृतं स्वयं कर्मुच्यते । स्वयं कर्तृ ब्रह्मेति प्रसिद्धं लोके- सर्वकारणत्वात् । यस्माद्वा स्वयमकरोत्सर्वे सर्वात्मना, तस्मात्पुण्यरूपेणापि तदेव ब्रह्म कारणं ब्रह्म सुकृतं पुण्यम् सुकृतमुच्यते । सर्वथाऽपि तु फलसंबन्धादिकारणं सुकृत- शब्दवाच्यं प्रसिद्धं लोके यदि पुण्यं, यदि वाऽऽन्यत्; सा प्रसिद्धितिये चेत- नकारणे सत्युपपद्यते; वृद्धि तद्ब्रह्म-सुकृतप्रसिद्धेरिति । इतश्चास्ति । कुतः ? रसत्वात् । कुतो ज्ञवप्रसिद्धिर्वहागः ? इत्यत आह- ब्रह्मैवातीन्द्रियरसः 'यद्वै तत्सुकृतम् । रसो वै सः ।' रसो नाम तृप्तिहेतुरानन्दकरो मधुरा- म्लादिः प्रसिद्धो लोके । रसमेव ह्ययं लब्ध्वा प्रां- प्याऽऽनन्दी सुखी भवति । नासत आनन्दहेतुत्वं दृष्टं लोके । बाह्यानन्द- साधनरहिता अप्यनीहा निरेषणा ब्राह्मणा बाह्यरसलाभादिव सानन्दा दृश्यन्ते विद्वांसः; नूनं ब्रह्मैव रसस्तेषाम् । तस्मादस्ति तत्तेषामानन्दका- रणं रसवद्ब्रह्म । सुकृतमिति । क्तप्रत्ययः सुष्टु क्रियत इति कर्माभिषायकोऽपि च्छान्दस्या प्रक्रियया सुष्टु करोतीति कर्तरि व्याख्यातः । ( १ ) चेतनवत्का ॰—पाठः । (२) असदेवेदमग्रेऽभून्नामरूपात्मकं जगत् । पश्चात्तु ब्रह्मणा सृष्टं सदभूद्ब्रह्मसत्त्वतः ॥ ११४ ॥ तद्ब्रह्मात्मानमेवेमं सच्चिदानन्दलक्षणम् । अकार्षीज्जगदाकारं स्वयमेव स्वमायया ।। ११५ ।। अस्ति भाति प्रियं चेति प्रतिवस्त्ववभासते । त एते सच्चिदानन्दा ब्रह्मगा भान्ति वस्तुषु ॥ ११६ ॥ नामरूपे घटादीनां प्रागभावयुते ततः | अभावत्वं च भावत्वं पर्यायेणेक्ष्यते तयोः ॥ ११७ ॥ आगमापायिधर्मों यौ न तयोर्धर्मिरूपता । शयनोत्थानयोर्नास्ति देहवस्तुस्वरूपता ॥ ११८ ॥ • सखासत्त्वे अन्यदीये आसेते नामरूपयोः । मायारूपमसत्त्वं स्यात् सत्ताया ब्रह्मरूपता ॥ ११९ ॥ जाड्यदुःखे मायके स्तो भानानन्दौ परात्मगौ। लौकिकाः सञ्चिदानन्दा ब्रह्मगाश्वेदसत्कथम् ॥१२०॥ -तैत्तिरी कविया प्रकाश: 1 12