पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ तैत्तिरीयोपनिषत् य॒दा ह्ये॑षैष एतस्मिन्नदृश्येऽनातम्ये ऽनि- रुक्तेऽनिलयनेऽभयं प्रतिष्ठां वि॒न्दते । अथ सोऽभयं गतो भवति । [ ब्रह्म-आनन्द वल्ली इतश्चास्ति । कुतः ? प्राणनादिक्रियादर्शनात् । अयमपि हि पिण्डो जीवतः ब्रह्म देहादिचेष्टा - प्राणेन प्राणित्यपानेनापानिति; एवं वायवीया ऐटिन्यूकार वैषयिकानन्दहेतुः चेष्टाः संहतैः कार्यकरणैर्निर्वर्त्यमाना दृश्यन्ते । तच्चैकार्थ- वृत्तित्वेन संहननं नान्तरेण चेतनमसंहतं संभवति -- अभ्यत्रादर्शनात् । तदा- ह-यद्याद एष आकाशे 'परमे व्योनि गुहायां निहितः ' आनन्दो न स्यान्न भवेत्, को ह्येव लोकेऽऽन्यादपानचेष्टां कुर्यादित्यर्थः । कः प्राण्यात्प्राणनं वा कुर्यात्ः तस्मादस्ति तद्ब्रह्म, यदर्थाः कार्यकरणप्राणनादिचेष्टाः; तत्कृत एव चा- Sऽनन्दो लोकस्य । कुतः ? एष होव पर आत्माऽऽनन्दयात्यानन्दया सुख- यति लोकं धर्मानुषद् । स एवाऽऽत्माऽऽनन्दरूपोऽविद्यया परिच्छिन्नो वि भाव्यते प्राणिभिरित्यर्थः । १ भयाभयहेतुत्वाद्विद्वद्विदुषोरस्ति तद्ब्रह्म । सहस्त्वाश्रयणेन ह्यभयं भवति; नासद्वस्त्वाश्रयणेन भयनिवृत्तिरुपपद्यते । कथमभयहेतुत्वमिति ? उच्यते- विदुष एव ब्रह्मप्राप्तिः यदा ह्येव यस्मादेष साधक एतस्मिन्ब्रह्मणि -- किं विशिष्टे ? अदृश्ये --दृश्यं नाम द्रष्टव्यं - विकारः - दर्शनार्थत्वाद्विकारस्य; न दृश्यमदृश्य- मविकार इत्यर्थः । एतस्मिन्नदृश्ये ऽविकारेऽविषयभूते, अनात्म्ये ऽशरीरे-यस्माददृश्यं तस्मादनात्म्यं; यस्मादनात्म्यं तस्माद्विरुक्तम्- विशेषो हि निरुच्यते, विशेषश्च विकार, अविकारं च ब्रह्म सर्वविकार- हेतुत्वात् तस्मादनिरुक्तम् । यत एवं, तस्मादनिलयनं, निलयनं- नीडः- एकार्थवृत्तित्वेनेति । एक प्रयोजनसाधनत्वेन परस्परायत्ततेत्यर्थः । अन्यत्रेति- गृहप्रासादिषु स्वतन्त्रं गृहावनारभ्यं स्वामिनमन्तरेण संहननस्यादर्शनात, कार्यकरण- संघातेऽपि विलक्षणः स्वामी शरीरोपचयादिरहितोऽवगम्यते । स च चेतनत्वेन भेदाभावा- द्ब्रह्मैव-इति तदस्तित्वसिद्धिरित्यर्थः । - ( १ ) सप्तम्यन्तः प्रथमान्तो वा । प्रथमान्तपक्षे आकाशपदमानन्दपद्रसमानाधिकरणम्, ततश्चाकाशा- भिघानः परमानन्दः परमात्मस्वभाव इत्यर्थः । तुलय-त्र. सू. भा. १. १, २२. ( २ ) अभीष्टविषयलाभे सति मनो विषयाभिमुख्यं परित्यज्य विषयान्तराभिलाषोदयात् पूर्वमन्तर्मुखं प्रत्यगात्मानन्दमनुभवति । सो- इयं लोके विषयानन्द इत्युच्यते ।