पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ ससमोऽनुवाकः अस॒द्वा इदमग्र॑ आसीत् । ततो वै सद॑जायत । तदा - त्मान स्वयंमकुरुत । तस्मात्चत्सुकृतमुच्यत इति । यथा पूर्वेष्वन्नमयाद्यात्मप्रकाशकाः पञ्चस्वपि, एवं सर्वान्तरतमात्मास्तित्वप्र- काशकोऽपि मन्त्रः कार्यद्वारेण भवति । इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्य श्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषदि ब्रह्म — आनन्द – वल्लीभाष्ये षष्ठोऽनुवाकः ॥ ६ ॥ } 'असद्वा इदमग्र आसीत्' –असदिति व्याकृतनामरूपविशेषविपरीतरूपम्- अव्याकृतं ब्रह्मोच्यते, न पुनरत्यन्त मेवासत्-न ह्यसतः सज्जन्मास्ति । इदमिति नामरूपविशेषवड्याकृतं जगद्; अग्रे - पूर्व-प्रागुत्पत्तेर्ब्रह्मैवासच्छन्दवाच्यमा- सीत् । ततोऽसतो वै सत् प्रविभक्तनामरूपविशेषमजायतोत: नम् । किं ततः प्रविभक्तं कार्यमिति- पितुरिव पुत्रः ? ब्रह्म सुकृतम् -स्वयं कर्तृ तानुप्रअनिराकरणे प्रकरणस्य तात्पर्यं ' सोऽकामयत ' इत्यादेर्दर्शयति-अस्ति नास्तीत्या- दिना | तस्या बुद्धिगुहायाः प्रत्ययाः – 'अहं कर्ता भोक्ता ' इत्यादयः, त एवावभासविशेषाः, तैर्व्यज्यमानम् - विशिष्टस्य विषयत्वेऽपि स्वरूपस्याविषयत्वादित्यर्थः । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते तैत्तिरीयोप- निषच्छांकरभाष्यटिप्पणे ब्रह्म –आनन्द – वल्ल्यां षष्ठोऽनुवाकः ॥ ६ ॥ (३) ( १ ) तुलय-त्र. सू. १. १. १५; अविकृतं - पाठः । ( २ ) ॰टधर्मस्य – इति पाठः । सृष्ट्वाऽथ जीवरूपेण प्रविवेश वपुष्ययम् ॥ १०३ ॥ यो विज्ञानमयस्तस्मिंश्चैतन्यं प्रतिबिम्बितम् । तच्च धारयति प्राणाञ्जीवाख्यां लभते ततः ॥ १०४ ॥ भोक्त्य भूत्वेश्वरस्तद्वद्भोग्यरूपोऽपि सोऽभवत् । भोग्यं च बहुधा सच्च त्यञ्चेत्यादिविभेदतः ॥१०५॥ . सत् प्रत्यक्षं परोक्षं त्यत् तदभावावुभौ तथा । वक्तुं शक्यमशक्यं चेत्यादि द्वन्द्वेऽस्ति भोग्यता ॥१०६ ॥ कामित्वमालोचकत्वं स्रष्टृत्वं च प्रवेष्टता | भोग्याकारश्च पञ्चैते ब्रह्मसद्भावहेतवः ॥ १०७ ॥ सद्रूपः परमात्मा स्यात्कामित्वात्सर्गकामिवत् । आलोचनान्मन्त्रिवत्सन् स्रुष्टुत्वाच्च कुलालवत् ॥१०८॥ प्रवेष्टृत्वात्सर्पवत् सन् भोग्यत्वाच्चौदनादिवत् | नानुमानैरेव किन्तु विद्वत्प्रत्यक्षतोऽपि सन् ॥ १०९ ॥ यत्सत्यं ब्रह्म पूर्वोक्तं तदेव जगदात्मना । भाति भ्रान्त्या ततः सर्वं ब्रह्मत्याचक्षते बुधाः ॥ ११० ।- सर्पधारादिका भ्रान्त्या कल्पिता तत्त्वदर्शने | रज्जुरेव यथा तद्द्ब्रह्मैव सकलं जगत् ॥ १११ ॥ नामरूपयुतत्वेन जगत्सद्ब्रह्म नेति यत् । पूर्वपक्षिमतं तन्न ब्रह्मसत्त्वं तदीक्ष्यताम् ॥ ११२ ॥ रज्जुदैर्घ्यं यथा सर्पधारादिष्वनुगच्छति । ब्रह्मसत्त्वं तथा व्योमवाय्वादिष्वनुगच्छति || ११३ ॥. - तैत्तिरीयविद्याप्रकाश: .