पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ षष्ठोऽनुवाक: ] ब्रह्म सच त्यच यदि॑दि॑ च॒ । तत्सत्यमि॑त्याच॒क्षते । तदप्येष श्लोको भवति । इति कृष्णयजुर्वेदीयतत्तिरीयोपनिषद् ब्रह्म -- आनन्द – वल्ल्यां षष्ठोऽनुवाकः ॥ ६ ॥ ९५ निलयनं चानिलयनं च - निलयनं नीडमाश्रयो मूर्तस्यैव धर्मः अनिलयनं त द्विपरीतममूर्तस्यैव धर्मः । 'त्यनिरुक्तानिलयनानि' अमूर्तधर्मत्वेऽपि व्याकृ- तविषयाण्येव–सर्गोत्तरकालभावश्रवणात्; त्यदिति प्राणाद्यनिरुक्तं, तदेवानि- लयनं च; अतो विशेषणान्यमूर्तस्य व्याकृतविषयाण्येवैतानि | विज्ञानं चेतनम्, अविज्ञानं तंद्रहितमचेतनं पाषाणादि। सत्यं च व्यवहारविषयम्-अधिकारात्, न परमार्थसत्यम्; एकमेव हि परमार्थसत्यं ब्रह्म । इह पुनर्व्यवहारविषयमापे- एकमेव परमार्थ- क्षिकं सत्यं - मृगतृष्णिकाद्य नृतापेक्षयोदकादि सत्यमुच्यते । अनृतं च तद्विपरीतम् । किं पुनः ? एतत्सर्वमभवत्, सत्यं परमार्थसत्यम्; किं पुनस्तत् ? ब्रह्म - सत्यं ज्ञानमनन्तं ब्रह्म' इति प्रकृतत्वात् । यस्मात्सत्त्यदादिकं मूर्तमूर्तधर्मजातं यत्किचेदं सर्वमविशिष्टं विकारजा- विद्वदनुभवसिद्धं ब्रह्म तमेकमेव सच्छदवाच्यं ब्रह्माभवत्-तड्यतिरेकेणाभावा- नामरूपविकारस्य, तस्मात्तद्ब्रह्म सत्यमित्याचक्षते ब्रह्मविदः । सत्यं ब्रह्म प्रकृतप्रकरणस्य अस्ति नास्तीत्यनुप्रश्नः प्रकृतः, तस्य प्रतिवचनविषय एतदुक्तम्- आत्मा 'अकामयत बहु स्याम्' इति । स यथाकामं चाऽऽकाशादिकार्य फलितम् सत्त्यदादिलक्षणं सष्टा, तदनुप्रविश्य पश्यञ्शृण्वन्मन्वानो विजानन्बह्वभवत्ः तस्मात्तदेवेदम् - आकाशादि कारणं-कार्यस्थं-'परमे व्योमन् हृदयगुहायां निहितं - तत्प्रत्ययावभासविशेषेणोपलभ्यमानम् –'अस्ति' इत्येवं विजानीयादित्युक्तं भवति । तदेतस्मिन्नर्थे ब्राह्मणोक्त एषः श्लोको मन्त्रो भवति । ·यनम् ’ | अनिरुक्तत्वायमूर्तधर्मश्चेत्, ब्रह्मण एव किं न स्यादित्यत आह - त्यनिरुक्ता- निलयनानीति । - ' तत्सत्यमित्याचक्षते ' इत्यस्योपपत्तिमाह – यस्मादिति । पदानि व्याख्याय, प्रकृ- (१) लोकव्यवहारे बाधरहितं शुक्तिरज्जुस्याण्वादि । (२) व्यवहारदशायामारोपितं रजतसर्पचोरादि । (३) सर्वानात्मकल्पना कूटस्थब्रह्मचैतन्याधीना | शून्यस्य, कल्पितस्य वा कूटस्थानुभवादन्यत्र सत्त्वे- `पलब्ध्योरसिद्धेः सच्चिदेकताचं कूटस्थं तत्त्वमास्थ्यमित्यर्थः ।