पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तैत्तिरीयोपनिषत् तद॑नु॒त्र॒वि॒िश्ये॑ । सच्च त्यच्चा॑भवत् । नि॒रुक्तं चा- नि॑िरुक्तं च । नि॒लय॑नं॒ चानि॑िलयनं च । वि॒- ज्ञानं॒ चावि॑ज्ञानं च | सत्यं चानृतं च सत्य- म॒भवत् । शिष्टघटाद्युपलब्धिः, एवं बुद्धिप्रत्ययालोकविशिष्टात्मोपलब्धिः स्यात् । तस्मा- दुपलब्धिहेतौ ‘गुहायां निहितम्' इति प्रकृतमेव । तद्वृत्तिस्थानीये त्विह पुनः 'तत्सृष्ट्वा तदेवानुप्राविशत्' इत्युच्यते । १४ 4 [ ब्रह्म-आनन्द-वल्ली -दिवेदमाकाशादिकारणं कार्य सृष्ट्वा तद्नुप्रविष्टमिवान्तर्गुहायां बुद्धौ द्रष्ट, श्रोतृ, मन्तृ, विज्ञात्रित्येवं विशेषवदुपलभ्यते । स एव तस्य प्रवेशः । तस्मा- दस्ति तत्कारणं ब्रह्म, अतोऽस्तित्वात्, 'अस्ति' इत्येवोपलब्धव्यं तत् । 6 तत्कार्यमनुप्रविश्य किं ? सञ्च मूर्त, त्यच्चामूर्तमभवत्- मूर्तामूर्ते ह्यव्याकृत- परोक्षापरोक्षे मूर्तमूर्त नामरूपे आत्मस्थे अन्तर्गतेनाऽऽत्मना व्याक्रियेते; व्याकृते च मूर्तामूर्तशब्दवाच्ये ते आत्मना त्वप्रविभक्तदेशकाले इति कृत्वा, आत्मा ते अभ- वदित्युच्यते । किंच निरुक्तं चानिरुक्तं च - निरुक्तं नाम निष्कृष्य समानासमा- नजातीयेभ्यो देशकालविशिष्टतयेदं तदित्युक्तम्; अनिरुक्तं तद्विपरीतम् । निरु- क्तानिरुक्ते अपि मूर्तामूर्तयोरेव विशेषणे | यथा सच्च त्यच्च प्रत्यक्षपराक्षे, तथा - त्याह — विशेषेति । संनिकर्षादिति – अन्तःकरणसंसर्गादेव देहघटादिषु चैतन्याभिव्यक्तिः, न स्वतः — अन्तःकरणं चाव्यवधानेनैव चैतन्याभिव्यञ्जकमन्वयव्यतिरेकाभ्यामित्यर्थः । यथा चास्वच्छस्वभावके घटादौ मुखं न प्रतिबिम्बते, जलादौ स्वच्छस्वभावके प्रतिबिम्बते, तथा सत्त्वप्रधानस्यान्तः कणस्य प्रसादस्वाभाव्याद्दटते तत्र ब्रह्मोपलब्धिरित्याह-अवभा- सात्मकत्वाञ्चेति । किंच यथा जान्यसाम्येऽपि तमोलक्षणावरणाभिभवसमर्थ आलोकोऽङ्गी- क्रियते, तथा जाब्यसाम्येऽप्यन्तःकरणस्यैव प्रत्ययाकारपरिणतस्याज्ञानलक्षणावरणाभिभव- सामर्थ्यमङ्गकर्तव्यमित्याह - यथा चेति । ' निलयनं ' गृहप्रासादादिमुर्तेसंनिवेशविशेषः; अवयवसंस्थानविशेषराहित्यम् 'अनिल- ( १ ) तुलय – बृ. उ. वार्तिकम् - १. ४. ४९६-६३३. स्वाज्ञानादेव स्रजो भुजगे प्रवेशः, न वस्तुतो ऽस्ति — इति स्रगतिरिक्तसर्पासत्त्ववत् प्रतीचोऽपि स्वाज्ञानोत्थे जगति तद्वशादेव प्रवेशः, न परमार्थतः इति प्रत्यगात्मैव वस्तु, न जगदिति स्थितमित्यर्थः । ( २ ) कठ. उ. ६. १३. (३) ० ते मू॰—पाठः । (४) °मूर्त सं°— इति पाठः ।