पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६' षष्टोऽनुवाक: ] प्रवेशचनार्थः स्माद्वाक्याद्यत्नवतामपि 66 विज्ञानमुत्पद्यते। इन्त ! तर्ह्यनर्थकत्वादपोह्यमेतद्वाक्यं तत्सृष्ट्वा तदेवानुप्राविशत् ” इति । न, अन्यार्थत्वात् । किमर्थमस्थाने चर्चा ? प्रकृतो ह्यन्यो विवक्षितोऽस्य वाक्यस्यार्थोऽस्ति, स स्मर्तव्यः – “ब्रह्मविदा - ब्रह्मात्मैकत्वस्वरूपातुः. प्नोति परम्”, “ सत्यं ज्ञानमनन्तं ब्रह्म ", " यो वेद निहितं गमार्थमनिर्वाच्यप्रवेश- गुहायाम्” इति । तद्विज्ञानं च विवक्षितम्; प्रकृतं च तत् । ब्रह्मस्वरूपानुगमाय चाऽऽकाशाद्यन्नमयान्तं कार्य प्रदर्शितं, ब्रह्मानुगंमश्राऽऽरव्धः—– तंत्रान्नमयादात्मनोऽन्योऽन्तर आत्मा प्राणमयः, तद्- न्तर्मनोमयः, विज्ञानमय इति विज्ञानगुहायां प्रवेशितः, तत्र चाऽऽनन्दमयो वि शिष्ट आत्मा प्रदर्शितः । अतः परमानन्दमयलिङ्गाधिगमद्वारेणाऽऽनन्दविवृद्धय- वसान आत्मा ब्रह्म पुच्छं प्रतिष्ठा - सर्वविकतर पदः, निर्विकल्पोऽस्यामेव गुहायामधिगन्तव्य इति तत्प्रवेशः प्रकल्यते । वचनम् ९३ न हाम्यत्रोपलभ्यते ब्रह्म, निर्विशेषत्वात् - विशेषसंबन्धो ह्युपलब्धिहेतुर्दृष्टः, यथा राहोश्चन्द्रार्कविशिष्टसंबन्धः । एवमन्तःकरणगुहात्मसंबन्धो ब्रह्मण उपल- ब्धिहेतुः संनिकर्षात्, अवभासात्मकत्वाञ्चान्तःकरणस्य; यथा चाऽऽलोकवि- ह्मणः, ततोऽन्यस्यापि प्रवेशो न सँभवतीत्युक्तमित्याह --न चेति । इतरस्यापि प्रवेशः कल्पयितुं न शक्यत इत्याह - तदेवानुप्राविशदिति | सा च श्रुतिः स्रष्टुः प्रवेशमाह, सा चास्माकं मीमांसकानां प्रमाणं, ततस्तद्विरोधेनान्यस्य प्रवेशकल्पनाऽयुकेति भावः । त श्रुतिशरणतयैव ब्रह्मण एवं प्रवेश उच्यतामित्याशङ्कयाह - न चेति । तस्मात् 'अ- न्धो मणिमविन्दत्' इतिवदर्थशून्यमेवेदं वाक्यमिति निगमयति- हन्तेति । शक्तिगोचरस्या- र्थस्यासंभवादर्थशून्यत्वं, तात्पर्यगोचरस्य वा ? नाऽऽयः—कदेविप्रकोप जलेऽमू- त॑स्य॒ प्रतिबिम्बभाववदमूर्तस्यापि ब्रह्मणोऽनिर्वाच्यावियास प्रतिबिम्बितस्य सृष्ट्युत्तरकाल- मन्तःकरणादिषु प्रतिबिम्बभावसंभवादित्याह-नेति । न द्वितीय इत्याह – अन्यार्थत्वा दिति । एतत्स्फुटयति — किमर्थमित्यादिना । अतः परमिति | बुद्धिगुहाप्रवेशादनन्तर मानन्दमय एव विशिष्टोऽथों विशेष्यस्य चिद्धातोर्लिंङ्क, विशिष्टस्य विशेष्याव्यभिचारदर्श- नात् – तदधिगमद्वारेणाऽऽनन्दविवृद्धयवसान आत्मा ब्रह्मरूपोऽस्यामेव गुहायामधिगन्तव्यः इत्यभिप्रेत्य जले सूर्यप्रवेशवदनिर्वाच्यः प्रवेशोऽभिधीयत इत्यर्थः ।

बुद्धिगुहायामेव ब्रह्मण उपलब्धिसंभवाद, तत्रैव प्रवेशोऽभिधित्सित इलाह- न हीति । नन्वन्यत्रोपलब्ध्यनर्हं ब्रह्म बुद्धौ वा कथमुपलभ्यत इत्याशङ्कयोपाधेयग्यताविशेषसंभवादि- (१) ° पावगमाय -- पाठः (२.) ० ह्यावगम पाठः । (३) तै. आ. १. ११. ५. (४) ° लिङ्गविं०. इति पाठः । ( ५ ) ० शेष्यस्याव्य °—इति पाठः । -