पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ तैत्तिरीयोपनिषत् [ब्रह्म-आनन्द वल्ली 'शोपपत्ते:- न हि यो यस्यान्तःस्थः स एव तत्प्रविष्ट उच्यतेः बहिष्ठस्यानुक्र वेश: स्यात्, प्रवेशशब्दार्थस्यैवं दृष्टत्वात् – यथा गृहं कृत्वा प्राविशदिति । (६) जलसूर्यादिप्रतिबिम्बवत्प्रवेशः स्यादिति चेत्, न; अपरिच्छिन्नत्वात्, अमूर्तत्वाच्च-परिच्छिन्नस्य मूर्तस्यान्यस्यान्यन्त्र प्रसादस्वभावके जलाये सूर्यकादिप्रतिबिम्बोदयः स्यात्; न त्वात्मनः, अमूर्तत्वात्, आकाशादिकारण- स्याऽऽत्मनो व्यापकत्वात् तद्विप्रकृष्टदेशप्रतिबिम्बाधारवस्त्वन्तराभावाच्च प्र तिबिम्बवत्प्रवेशो न युक्तेः । एवं तर्हि नैवास्ति प्रवेशः, न च गत्यन्तरमुपलभामहे - " तदेवानुप्रावि शत् ” इति श्रुतेः । श्रुतिश्च नोऽतीन्द्रियविषये विज्ञानोत्पत्तौ निमित्तम् । न चा- मुख्यार्थो न लभ्येतेत्याह – न बहिष्ठेति । अन्यस्य वेदान्तिनो मतमुद्भाव्य दूषयति- जल इत्यादिना । - एवं सिद्धान्तैकदेशीयं निरस्य पूर्ववाद्युपसंहरति-- एवं तहति । नैवास्ति प्रवेशो त्र- - " 66 (१) न च, अवच्छेदपक्षे “यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् । उपाधिनाऽक्रि- यभेदरूपो देवः क्षेत्रेष्त्रेवमजोऽयमात्मा । ”, “अत एव चोपमा सूर्यकादिवत् " ( ब्र. सू. ३. २.१८. ) इति श्रुतिसूत्रविरोध इति वाच्यम् । भाष्यकारैरेव ' अत एव ' इति सूत्रं व्याख्याय, सूर्यादिवदात्मनः “प्रति- बिम्बो न युज्यते-इति तदाक्षेपकत्वेन " अम्बुवदग्रहणात्तु न तथात्वम् ” ( ब्र. सू. ३. २. १९०) इति सूत्रं व्याख्याय, ततः “ वृद्धिहास भाक्त्वमन्तर्भावादुभयसामञ्जस्या देवम् ” ( २० ) इति सूत्रेणोक्तानुपपत्त्या- त्मनः प्रतिबिम्बमनुपपन्नमित्यङ्गीकृत्यैव श्रुतिषु सूर्यादिप्रतिबिम्बोपादानस्य तात्पर्यान्तरवर्णनपरताया उक्तत्वात्। बृहदारण्यकभाष्येऽपि “ स एष इह प्रविष्ट आनखाग्रेभ्यः ” (बृ. उं. १. ४. ७. ) इति वाक्यव्याख्या- नावसरे सर्वंगतस्यात्मनः कः प्रवेशो नाम ? – इति विमृश्य ' प्रतिबिम्बनं प्रवेश: ' - इति पक्षं विप्रकृष्टदेशाद्य- भावेनैव दूषयित्वा, देहादावात्मन उपलभ्यमानत्वं प्रवेशः, नहि पाषाणादाविव देहादावात्मनोऽनुपलब्धिर- स्तीति प्रवेशपदार्थस्यान्यथोपपादनेन प्रतिबिम्बपक्षदूषणं स्थिरीकृतम् । यद्यपि “ आभास एव च ? (क्र. सू. २. ३. ५०.) इति सूत्रेण “ आभास एव चैष जीवः परस्यात्मनो जलसूर्यकादिवत्प्रतिपत्तव्यः' इति तद्भाष्येण च प्रतिबिम्बपक्ष उक्त इति प्रतिभाति, तथापि परमाप्तयोः सूत्रकार भाष्यकारयोरेकत्र जीवस्य प्रतिबिम्बत्वस्वीकारः, अन्यत्र तन्निराकरणं च न संभवतीति किंचिदनुरोधेन कस्मिंश्चिव्याख्यातव्ये प्रतिबिम्ब- स्वनिराकरणस्य युक्तियुक्तत्वेन " आभास : ' इति सूत्रे भाष्यकृद्भिरपि श्रुत्योपपत्त्या प्रतिबिम्बत्वस्यासमर्थित - तदेव सूत्रं, तद्भाष्यं च " वृद्धिहासभाक्त्वम् ” इति सूत्रोक्तन्यायात् " अतश्च यथानैकस्मिअलसू- यंके कम्पमाने जलसूर्यकान्तरं कम्पते एवं नैकस्मिञ्जीवे कर्मफलसंबंधिनि जीवान्तरस्य तत्संबन्धः ” इति तदधिकरणभाष्ये प्रतिबिम्बस्य दृष्टान्तत्वेनोक्तत्वाच्च प्रतिबिम्ब सादृश्यप्रतिपादनपरं व्याख्येयम् । तस्मात्प्रतिथि- म्वासंभवादवच्छेदपक्षे विरोधाभावात्, साधकस्य सत्त्वाच्च, अवच्छेद्यचैतन्यस्य प्रतिबिम्बपक्षेऽपि संमतत्वे - नोभयसंप्रतिपन्नत्वेन लाघवात् तस्यैवं जीवत्वकल्पनौचित्यात्, सर्वंगतस्य चैतन्यस्यांन्तःकरणादिनावच्छेदो ऽवश्यंभावीत्यावश्यकत्वादवच्छेदो जीव इति । - भाष्योत्कर्षदीपिका. ७. १४. (२) ( २ ) तुलय- “ श्रुतिश्च नः प्रमाणमर्तीद्रियार्थविज्ञानोत्पत्तौ ।” शां. भा. २.३०१ " त्वातू,