पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ षष्ठोऽनुवाकः ] ब्रह्मणो जीवात्मना प्रवेश: ९१ घंटे मृदचूर्णात्मनाऽनुप्रवेशः, मृदचूर्णस्याप्रविष्टदेशवत्त्वाञ्च; न त्वात्मनः, एकत्वे सति निरवयवत्वादप्रविष्टदेशाभावाच्च, प्रवेश उपपद्यते । कथं तर्हि प्रवेशः स्यात् ? युक्तश्च प्रवेशः, श्रुतत्वात् 'तदेवानुप्राविशत् इति; (२) सावय- वमेवास्तु, तर्हि सावयवत्वान्मुखे हस्तप्रवेशवन्नामरूपकार्ये जीवात्मनाऽनुप्र- वेशो युक्त एवेति चेत्, न; अशून्यदेशत्वात्;—न हि कार्यात्मना परिणतस्य नामरूपकार्यदेशव्यतिरेकेणाऽऽत्मशून्यः प्रदेशोऽस्ति यं प्रविशेज्जीवा त्मना । (३) कारणमेव चेत्प्रविशेत्, जीवात्मत्वं जह्यात्-यथा घटो मृत्प्रवेशे घटत्वं जहाति; ' तदेवानुप्राविशत् ' – इति च श्रुतेर्न कारणानुप्रवेशो युक्तः । (४) कार्यान्तरमेव स्यादिति चेत्, –' तदेवानुप्राविशत् ' - इति जीवात्म- रूपं कार्य नामरूपपरिणतं कार्यान्तरमेवाऽऽपद्यत इति चेत्, न; - (१) विरो- धात्, न हि घटो घटान्तरमापद्यते; (२) व्यतिरेकश्श्रुतिविरोधाच्च– जीवस्य नामरूपकार्यव्यतिरेकानुवादिन्यः श्रुतयो विरुध्येरन्; (३) तदापत्तौ मोक्षासं भवाच्च, – न हि यतो मुच्यमानस्तदेवाऽऽपद्यते, न हि शृङ्खलापत्तिर्बद्धस्य • तस्करादेः । (५) बाह्यान्तरभेदेन परिणतमिति चेत् - तदेव कारणं ब्रह्म शरीराद्याधार- त्वेन तदन्तर्जीवात्मनाऽऽधेयत्वेन च परिणतमिति चेत् -नः बहिष्ठस्य प्रवे- सिद्धान्त्येकदेशिनां मतमुद्भाव्य पूर्ववादी दूषयति – यथा घट इत्यादिना । स्रष्टुरन्यस्य वा प्रवेशोन संभवतीति चेत्, कथं तर्हि प्रवेशो वाच्यः ? - इति सिद्धान्त्येकदेश्याह–कथमिति । नास्त्येवेति न वक्तव्यमित्याह – युक्तश्चेति । स एवाऽऽह गतिम् – सावयवमेवेति । पूर्व- वादी दूषयति–न, अशून्यत्वादिति । कार्यात्मना परिणतस्य ब्रह्मणो नामरूपात्मकं कार्यमेव देशः, तव्यतिरेकेण न धन्यः प्रदेशोऽस्ति । यत्कारणमेव कार्याकारेण परि- णतं, तत्प्रति कार्यविशेषो जीवात्मा प्रवेक्ष्यतीति न शङ्कनीयमित्याह – कारणव चेदिति । कार्यविशेषस्य प्रवेशमङ्गीकृत्य दूषणमुक्तम; स न संभवति - श्रुतिविरोधादि- त्याह—तदेवेति । कारणपरामर्शकेन तच्छब्देन कार्यमुपलक्ष्य, कार्यान्तरस्य तत्र प्रवेशो विधीयतेऽप्रा- प्रदेशसंभवात्; अतो न श्रुतिविरोध इति सिद्धान्तैक देशिम तमुद्भाव्य दूषयति - कार्या न्तरमेवेत्यादिना । कारणवाचकेन तच्छब्देन कार्यलक्षणायामविवक्षितलक्षणा चेत्प्रसज्येत, तर्हि कारण- पर एव तच्छब्दोऽस्त्वित्याहान्यः सिद्धान्तैकदेशी - बाह्येति । अस्मिन्पक्षे प्रवेशश्नुते- ( १ ) अहंकारादिकार्यात्मकत्वम् । ( २ ) ° वात्मना प्र° – इति पाठः ।