पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९० तैत्तिरीयोपनिषत् [ ब्रह्म-आनन्द वल्ली तत्रैतश्चिन्त्यं – कथमनुप्राविशदिति । किं यः स्रष्टा, स तेनैवाऽऽत्मनाऽनुप्रा- ब्रह्मणो मायिकः विशत्, उतान्येनेति ? किं तावद्युक्तम् ? क्त्वाप्रत्ययश्रवणात्, सगप्रवेशः यः स्रष्टा, से "लातृधाविद्यदिति । ननु न युक्तं, मृद्धञ्चेत्कारणं ब्रह्म – तदात्मकत्वात्कार्यस्य; कारणमेव हि का र्यात्मना परिणमते; अतोऽप्रविष्टस्यैव कार्योत्पत्तेरूर्ध्व पृथक्कारणस्य पुनः प्रवे- शोऽनुपपन्नः न हि घटपरिणामव्यतिरेकेण मृदो घटे प्रवेशोऽस्ति । (१) यथा घटे चूर्णात्मना मृदोऽनुप्रवेशः, एवमनेनाssत्मना नामरूपकार्ये ऽनुप्र वेश आत्मन इति चेत्, श्रुत्यन्त " अनेनं जीवेनाऽऽत्मनाऽनुप्रविश्य " इति । नैवं युक्तम्, एकत्वाद्ब्रह्मणः; मृदात्मनस्त्वनेकत्वात्सावयवत्वाच्च युक्तो कात्मके कथ्येते, न त्वैक्याभिप्रायेणेत्यर्थः । न केवलं ब्रह्मणो बहुरूपत्वं, मायोपाधिकं सर्वव्यवहारास्पदत्वं चेत्याह~-ताभ्यामिति । प्रवेशस्यानिर्वाच्यतायोतनेन जीवस्य ब्रह्मात्मतायां प्रवेशवाक्यस्य तात्पर्य दर्शयितुं वि. चारमारभते - तत्रैतच्चिन्त्यमित्यादिना । विमशें सति, क्त्वाश्चत्यनुरोधात्सरव प्रवेश इत्युकं सिद्धान्तिना । पूर्ववाह-ननु न युक्तमिति । सृष्टिप्रवेशक्रिययोः पूर्वापरकालीनत्वसंभवे सति कर्नैक्यं क्त्वाश्श्रुत्या बोध्येत, न तु प्रवेशस्योत्तरकालता संभवति सृष्टिसमय एवोपादा- नस्य कार्यात्मनाऽवस्थितत्वादित्यर्थः । एतदेव विवृणोति – कारणमेव हीति । अप्रविष्टे यथा मठादौ देवदत्तस्य प्रवेशो दृष्टः, तथा कार्योत्पत्तेरुर्ध्वं पृथक्प्रवेशो न संभवतीत्यर्थः । चेत्यप्रपञ्चोऽध्यस्ततयैव प्रतीयते - इत्यवश्यमङ्गीकर्तव्यम् । ततश्चौपाधिक एव चितो नानात्वावभासः । यत एवं ज्ञानार्थयोः परमार्थतः संबन्धाभावः, ततश्चेत्यप्रपञ्चस्य चिद्रूपेऽध्यस्ततयैव प्रतीतिर्वक्तव्या । तथाच जलतरङ्गबुद्बुदादिनानाविधोपाधिसंबन्धवशादेकमेव चन्द्रस्वरूपं भिन्नं प्रतीयते, तथा स्वात्मन्यध्यस्तनानावि- धचेत्योपाधिसंबन्धवशादधिष्ठानभृता चिदपि भिद्यते । अतश्चितो भेदप्रतीतिश्चेत्यघटपटादिभेदनिबन्धनैव, न तु पारमार्थिकीत्यर्थः । (१) त्र. सू. १. ४. २२. ( २ ) अन्येन --पाठः । ( ३ ) छां. उ. ६.३.२. ( ४ ) विवेकी ब्रह्मणः सत्तां सृष्टिकामादिहेतुभिः । साधयन् बहुधा मूढं बोधयेन्मोइनुत्तये ॥ ९८ ॥ अकामयत सृष्टयादौ परमात्मा स्वमायया । बहुस्यामहमेवातः प्रजायेयेति कामना ॥ ९९ ॥ स्वस्यैव बहुधा चोक्तरुपादानं मृदादिवत् । तथा कामयितृत्वे न निमित्तत्वं कुलालवत् ॥ १०० ॥ निर्धर्मकेऽप्यात्मतत्त्वे निमित्तत्वं स्वमायया | उपादानत्वसहितं माया दुर्घटकारिणी ॥ १०१ ॥ । असंभाव्यं न मायायामुपलम्भं न साऽर्हति । ततो वेदो यथा ब्रूते सृष्टिरेषा तथेष्यताम् ॥ १०२ ॥ सृज्यमालोचयन् सर्वमसृजत्परमेश्वरः । -तैत्तिरीयकविष्याप्रकाश ( ५ ) ० तमतया प्र० - इति पाठः ।