६ षष्टोऽनुवांकः ] ब्रह्मसद्भावहेतवः ब्रह्मणः कामयितृत्वम् हि कामयित्रचेतनमस्ति लोके, सर्वशं हि ब्रह्मेत्यवोचाम, अतः कामयितृत्वोपपत्तिः । - ब्रह्मण आप्तकामत्वम् कामयितृत्वादस्मदादिवदनाप्तकाममिति चेत्, न; (१) स्वातन्त्र्यात्, – यथा- उन्यान्परवशीकृत्य, कामादिदोषाः प्रवर्तयन्ति, न तथा ब्रह्मणः प्रवर्तकाः कामाः । कथं तर्हि, ? सत्यज्ञान- लक्षणाः स्वात्मभूतत्वाद्विशुद्धाः, न तैर्ब्रह्म प्रवर्त्यते; तेषां तु तत्प्रवर्तकं ब्रह्म प्राणिकर्मापेक्षया; तस्मात्स्वातन्त्र्यं कामेषु ब्रह्मणः; अतो नानाप्तकामं ब्रह्म । (२) साधानान्तरानपेक्षत्वाच्च । – ( १ ) स्वातन्त्र्यात्, - ( २ ) साधनान्तरा- नपेक्षत्वाच यथाऽन्येषामनात्मभूता धर्मादिनिमित्तापेक्षाः कामाः स्वात्मव्यतिरिक्तं- यद्यपि सांख्यमते चेतनस्य निर्विकारत्वात्कामयितृत्वमसिद्धं, तथाऽपि लौकिकन्याप्तिबलेन कामयितृत्वादचेतनत्वाशङ्का निवर्त्यत इत्याह -- न हीति । - - तर्हि लौकिकव्याप्तिबलेनैवानाप्त कामत्वमपि प्राप्तमित्याशङ्कयाऽऽह- कामयितृत्वादि- त्यादिना । जीवानामनाप्तानन्दत्वं परवशत्वात्, न तदस्ति ब्रह्मण इत्यर्थः । कथंभूतास्तर्हि ब्रह्मणः कामा इत्याशङ्कायामाह- सत्यज्ञानलक्षणा इति - सत्यज्ञानं लक्षणं स्वरूपं येषां तेषां ते तथोक्ताः- एतदुक्तं भवति, मायाप्रतिबिम्बितं हि ब्रह्म जगतः कारणं, मायाप- रिणामैरव कामैः कामयितृ, तेषां च परिणामानाम विद्यायनभिभूतचिद्व्याप्तत्वात्सत्यज्ञाना- त्मकत्वं, ब्रह्मतादात्म्याच्चाधर्मायननुस्पृष्टत्वेन शुद्धत्वम्; ततो जीवकामवैलक्षण्यं सिद्धमिति । ब्रह्मणः कामाः पुण्यकारिणामप्यनिष्टफलप्राप्त्यनुकूलाः स्युः, स्वातन्त्र्यादित्याशंक्या- ऽऽह—तेषां त्विति । कामस्य शरीरादिसंबन्धजन्यत्वप्रसिद्धेः, ब्रह्मणः शरीरादिमत्त्वप्रसङ्गः-- इति नाऽऽशङ्कनीयमि- त्याइ - साधनान्तरानपेक्षत्वाञ्चेति । कामसंस्कारवत्या मायाया ब्रह्मतादात्म्यात्तत्परि- प्यामानां कामानां ब्रह्मतादात्म्यान शरीरादिनिमित्तापेक्षाऽस्तीत्यर्थः । ( १ ) सत्यकामः सत्यसंकल्प:- छां. उ. ८. १.५० (२) ० रिक्ताः कार्यकार इति पाठः । (३) श्रवणं मननं चोभे तत्त्वज्ञानस्य साधने । उक्तनिर्णयपर्यन्तं विज्ञानं श्रवणाद्भवेत् ॥ १४ ॥ अथ स्वबुद्धिदोषेण यतः संदेहसंभवः । अतोऽसौ मननं कुर्यात्संदेहाः स्युस्त्रयोऽस्य हि ॥ ९५ ॥ ब्रह्मास्ति नो वेत्येकः स्यादज्ञानी मुच्यते न वा | तत्त्वविन्मुच्यते नो वेत्यपरौ संशयावुभौ ॥ ९६ ॥ यदस्ति नामरूपाभ्यां व्याप्तं तद्वियदादिकम् । ब्रह्म निर्नामरूपत्वान्नास्तीत्याह विमूढधीः ॥ १७ ॥ -तैत्तिरीयकविद्याप्रकाश-
पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१२५
दिखावट