" तैत्तिरीयोपनिषत् [ ब्रह्म-आनन्द वल्ली एतेषां प्रतिवचनार्थ उत्तरग्रन्थ आरभ्यते । तत्रास्तित्वमेव तावदुच्यते । उत्तरप्रन्थप्रयोजनम् यच्चोक्तं " सत्यं ज्ञानमनन्तं ब्रह्म " इति तत्र च कथं सत्यत्व- - उपपत्ति पर्यालोचनम् मित्येतद्वक्तव्यमितीदमुच्यते सत्त्वोक्त्यैव सत्यत्वमुच्यते । उक्तं हि " सदेव सत्यम्” इति । तस्मात्सत्त्वोक्त्यैव सत्यत्व- मुच्यते । कथमेवमर्थताऽवगम्यतेऽस्य ग्रन्थस्य ? शब्दानुगमात् । अनेनैव हार्थे- नान्वितान्युत्तरवाक्यानि – “तत्सत्यमित्याचक्षते,” “यदेष आकाश आनन्दो न स्यात् ” इत्यादीनि । " ब्रह्मसद्भावः तत्रासदेव ब्रह्मेत्याशङ्यते । कस्मात् ? यदस्ति, तद्विशेषतो गृह्यते, यथा घटादि; यन्नास्ति, तन्नोपलभ्यते, यथा शशविषाणादि; तथा नोपलभ्यते ब्रह्म, तस्मा द्विशेषतोऽग्रहणान्नास्तीति । तन्न, आकाशादिकारणत्वा ह्यणः—न नोस्ति ब्रह्म । कस्मात् ? आकाशादि हि सर्व कार्य ब्रह्मणो जातं गृ- ह्यते; यस्माच्च जायते किंचित् तदस्तीति दृष्टं लोके, यथा घटाङ्करादिकारणं मृ- द्वीजादि; तस्मादाकाशादिकारणत्वास्ति ब्रह्म । न चासतो जातं किंचिद्रह्मते लोके कार्यम्; असतश्चेन्नामरूपादिकार्य, निरात्मकत्वान्नोपलभ्येत; उपलभ्यते तु, तस्मादस्ति ब्रह्म । असतश्चेत्कार्य गृहायसे व्यसतृत्तिलेट तत्स्यात्; न. चैवं, तस्मादस्ति ब्रह्म । तत्र “कथंमसतः सज्जायेत" इति श्रुत्यन्तरमसतः सजन्मासंभवमन्वाचष्टे न्यायतः, तस्मात्सदेव ब्रह्मेति युक्तम् । तद्यादे मृद्वजादिवत्कारणं स्यात्, अचेतनं तर्हि ? न, कामयितृत्वात् – न सत्वं चेदुपपन्नं ब्रह्मणः, तावतैव सत्यत्वं सिध्यति, सतो बाधासंभवादित्यर्थः । एवमर्थ- तेति । सत्त्वोपपादनेन सत्यवस्तुविषयतेत्यर्थः ।
ब्रह्मणः सत्त्वसाधनं नामासत्त्वव्यावृत्तिरेवेत्यभिप्रेत्यासत्त्वशङ्कामुद्भावयति – तत्रासदेवेति । विप्रतिपन्नमाकाशादि सत्पूर्वकं, कार्यत्वात्, घटवत् - इति लौकिकव्याप्त्यवष्टम्भेन सत्का- रणं तावत्सिद्धम् । तस्य च देशादिकारणत्वेन देशाधन वच्छिन्नत्वाद्ब्रह्मपदवाच्यत्वं सिद्धम् । तस्य विशेषतोऽनुपलम्भेनासच्छङ्का जायते, सा कारणत्वेन व्यावर्त्यते, न तु कारणत्वात्सत्त्वं साध्यत आश्रयासिद्धिप्रसङ्गादिति भावः । इतोऽपि जगदुपादाने नासत्त्वाशङ्का कार्येत्याह- न चासत इति । न्यायत इति । असदन्वयादर्शनादिति युक्तित इत्यर्थः । एवमसत्त्वाशङ्कां निरस्य, अचेतनत्वाशङ्कां प्रधानवादिनः प्रसङ्गान्निराचष्टे - तद्यदीति । ( १ ) छां. उ. ६. २. २. ( २ ) कारणत्वं कार्यापेक्षया नियतप्राक्कालसत्त्वं, तन्न शून्यस्य संभवति ।