पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ षष्ठोऽनुवाक: ] विद्वदविद्वद्विषया ब्रह्मप्राप्तिप्रश्नाः अनुप्रश्ना उ॒तावि॒द्वान॒मं॑ लो॒कं प्रेत्य॑ । कञ्च॒नम॑च्छ्रती ३ | आहा॑ वि॒द्वान॒मु॑ लो॒कं प्रेत्यं । कच॒त्सम॑नु॒ता ३ उ॒ | यस्मादेवम्, अतस्तस्मात्, अथानन्तरं श्रोतुः शिष्यस्यानुप्रश्ना आचार्योक्ति- सन्वेते प्रश्ना अनुप्रश्नाः । ८५ • सामान्यं हि ब्रह्माऽऽकाशादिकारणत्वाद्विदुषोऽविदुषश्च । तस्मादविदुषो- ऽपि ब्रह्मप्राप्तिराशङ्कयते (१) उतापि अविद्वानमुं लोकं परमात्मानमितः प्रेत्य कञ्चन–चनशब्दोऽप्यर्थे - अविद्वानपि गच्छति प्राप्नोति ? (२) किंवा न गच्छति ? इति द्वितीयोऽपि प्रश्नो द्रष्टव्यः, 'अनुप्रश्नाः ' इति बहुवचनात् । विद्वांस प्रत्य- न्यौ प्रश्नौ– यद्यविद्वान्सामान्य कारणमपि ब्रह्म न गच्छति, अतो विदुषोऽपि · ब्रह्मागमनमाशङ्कयते । अतस्तं प्रति प्रश्नः 'आहो विद्वान्' इति । (३) विद्वान् ब्रह्म- विदपि कश्चिदितः प्रेत्यामुं लोकं समश्नुते प्राप्नोति ? [समश्नुते उ इत्येवं स्थिते- यादेशे यलोपे च कृतेऽकारस्य प्लुतिः समश्नुता ३ उ इति । उकारं च वक्ष्य- माणमधस्ताद्पकृष्य, तकारं च पूर्वस्मादुतशब्दायासज्याऽऽहो इत्येतस्मात्पूर्व- मुतशब्द संयोग्य पृच्छयत उताऽऽहो विद्वानिति | विज्ञान्समश्नुतेऽमुं लोकम् ] किंवा ( ४ ) यथाऽविद्वान्, एवं विद्वानपि न समन्नुते ? इत्यपरः प्रश्नः । द्वावेव वा प्रश्नौ विद्वविद्वद्विषयौः बहुवचनं तु सामर्थ्यप्राप्तप्रश्नान्तरापेक्षया घटते । “असद्ब्रह्मेति वेद चेत् ", " अस्ति ब्रह्मेति चेद्वेद" इति श्रवणात्, अस्ति ' नास्तीति संशयः, ततोऽर्थप्राप्तः (१) किमस्ति, नास्ति? इति प्रथमोऽनुप्रश्नः ब्रह्म- णोऽपक्षपातित्वात्, (२) अविद्वान् गच्छति, न गच्छति ? इति द्वितीयःः ब्रह्मणः समत्वेऽप्यविदुष इव विदुषोऽप्यगमनमाशङ्य (३) किं विद्वान्समश्नुते, न समश्नुते ? इति तृतीयोऽनुप्रश्नः । प्रत्यक्षत्वादित्यर्थः । सर्वेषां साधारणत्वाच ब्रह्मणो व्यवहार्यत्वं सर्वान्प्रति भवेत्, न च दृश्यते, ततोऽपि नास्तित्वाशङ्का जायत इत्यर्थः । ' आकाशादिकारणत्वादिति । भूतविशिष्टसर्वजीवकारणत्वादित्यर्थः । कस्य सामर्थ्येन प्राप्तं प्रशान्तरमित्यत आह असह्येतीति । चेच्छदात्पाक्षिकसत्त्वा- वगमसामर्थ्यादित्यर्थः । ( १ ) यतो विदुषोऽविदुषश्च साधारणं ब्रह्म, यतश्चाप्रमेयं – अतः प्रश्ना भवन्तीति ‘अतः ' शब्दार्थः । आचार्योक्तेरनन्तरमिति ‘ अनु ? ' शब्दार्थः ।