सामग्री पर जाएँ

पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तैत्तिरीयोपनिषत् • [ ब्रह्म - आनन्द - वल्ली तस्यैष एव शारीर आत्मा । यः पूर्वस्य ॥ अथावो॑ऽनुप्र॒श्नाः । तस्य पूर्वस्य विज्ञानमयस्यैष एव शरीरे विज्ञानमये भवः शारीर आत्मा । कोऽसौ ? ये एष आनंन्दमयः ॥

तं प्रति नास्त्याशङ्का नास्तित्वे; अपोडसर्वविशेषत्वात्तु ब्रह्मणो नास्तित्व प्रत्याशङ्का युक्ता, सर्वसामान्याञ्च ब्रह्मणः । आनन्दमयस्य प्रकाशकोऽयं श्लोक इति केचन, तान्प्रत्याह- तं प्रतीति । सविशेषतया . (१) न चात्रैकदेश्युक्तरीत्या किष्टार्थो ग्राह्यः । यथाश्रुतार्थग्रहणे अनुपपत्त्यभावात् । न च-प्राणमये “तस्यै- षः ” इत्यस्य यथाश्रुतार्थग्रहणं न संभवति, अन्नरसमयात्मानुक्तेः- इति वाच्यम् । यस्मादन्नरसमय उत्पन्नः, स एव मूलकारणीभूतस्तस्यात्मा भविष्यतीति " तस्यैष एव शारीर आत्मा । यः पूर्वस्य " इत्यनुवादबलाद - वेगन्तुं शक्यत्वात् । स च मूलकारणतया " तस्माद्वा एतस्मादात्मन आकाश: संभूतः ” इति निर्दिष्ट एव । सतच ' यः पूर्वस्य ' इति षष्ठी जन्यजनकभावे । तथाच तस्य प्राणमयस्य ' एष एव शारीर आत्मा " इत्य-- त्रापि जन्यजनकभावे षष्ठी । शारीरपदं च तस्य जीवाभेदसूचकम् । अयं च जन्यजनकभाव उपादानोपादेय- भावरूपेणापि भवतीति " स वा एष पुरुषोऽन्नरसमयः ” इति, “ अन्योऽन्तर आत्मा प्राणमय: " इत्यात्मप- दसामानाधिकरण्यं चोपपद्यते । ततश्च यंदुपक्रमे सर्ववस्त्वनुस्यूततया सर्वान्तरत्वं, परिपूर्णत्वं ' अनन्त' पदेन सूचितम्, यच्च “ तस्माद्वा एतस्मादात्मन आकाशंः संभूतः ” इत्यादिना विवृतम्, तदानन्दमयादन्यस्यैवावग- म्यते । गुहानिहितत्वरूपमान्तरत्वं यदि ब्राह्मणैव रूपेण वक्तव्यम्, तदाप्यानन्दमयस्य य आत्माबगतः, तत्रैव तत्पर्यवसानं कल्पनीयम् । तथाच “ तस्मादन्योऽन्तर आत्मा " इत्यश्रवणमात्रेण नानन्दमयस्य मान्त्र - वर्णिकब्रह्मत्वं वक्तुं शक्यम् । वस्तुतस्तु, उपक्रमे यद्गुहानिहितत्वमुक्तम्, तज्जैवेन रूपेण । तस्य चानन्दमये पर्यवसानं जीवत्व एव लिङ्गम् | द्विप्रकारेण हि ब्रह्मणो गुहानिहितत्वम् - पारमेश्वरेण रूपेण, जैवेन च । तत्रा- द्यस्य " परमे व्योमन् ” इति प्रतिपादनात् परमव्योमाश्रितं गुहानिहितं जैवमेव रूपं सिध्यति । अत्र हि परम-. व्योमशब्दः परमेश्वरपरः । भृगुवल्यां सप्रपश्चं ब्रह्मस्वरूपं निरूप्य " सैषा भार्गवी वारुणी विद्या | परमे व्यो-- मन्प्रतिष्ठिता ” ( ३. .६. ) इति मन्त्रवाक्यगतपरमव्योम शब्दव्याख्यानत्वेन तस्याः सङ्गमितत्वात् । तदेव चान-. न्दमयपर्याये गुहानिहितं भविष्यति । अत्रापि हि " ब्रह्मपुच्छं प्रतिष्ठा " इति ब्रह्माश्रितत्वमवगम्यते । आधारा- राधेयभावेन चानन्दमयस्य ब्रह्मभेदोऽवगम्यते । ततश्च प्रियादिसंबन्ध आनन्दमयेऽक्लेशेनैव वर्णयितुं शक्यते । आनन्दमयस्य ब्रह्मत्वे तु तदपि क्लेशेनैव वर्णनीयं स्यात् । — ब्रह्मविद्याभरणे आनन्दमयाधिकरणे । - जगत्कोशाश्च दृश्यत्वात्सन्ति ब्रह्म न दृश्यते । अतो नास्तीत्याह मूढस्तत्सत्तां वक्ति बुद्धिमान् ॥ ८७ ॥ ब्रह्म नास्तीति चेद्वेद स्वयमेव भवेदसत् । कोशात्मता दूषिता चेन्नान्य आत्मास्ति तन्मते || ८८ ॥ आनन्दमयकोशेऽपि प्रियाद्या नश्वरास्त्रयः । अज्ञानं च ज्ञाननाश्यं न ब्रह्माङ्गीकरोत्यसौ ॥ ८९ ॥ अस्ति ब्रह्मेति चेद्वेद स्वयमेवात्र संभवेत् । अदृश्यस्यापि सत्ता स्यात्स्वप्रकाशत्वसंभवात् ॥ ९० ॥ गौणात्मा पुत्रभार्यादिर्मिथ्यात्मान्नमयादिकः । ब्रह्मानन्दो मुख्य आत्मा क्रमेणैते विवेचिताः ॥ ९१ ।। उत्तरात्मविवेकॆऽस्य पूर्वात्मा देहतां व्रजेत् । तेनोत्तरेण पूर्वस्य पूर्णत्वाद्देहिदेहता ॥ ९२ । सत्येवं निखिलं पूर्वं शरीरं ह्यन्तिमात्मनः । ब्रह्मानन्दस्तु शारीर: पूर्वस्यात्मेति निर्णयः ॥ ९३ ॥ तैत्तिरीयकविद्याप्रकाशः ( २ ) सर्वसाम्याच - पाठः ॥