सामग्री पर जाएँ

पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पञ्चमोऽनुवाकः

विज्ञानमये श्लोकः

विज्ञानं युतं तनुते । कर्माणि तनुतेऽपि च ।

विज्ञानं देवाः सर्वे । ब्रह्म ज्येष्ठमुपासते ।

विज्ञानं ब्रह्म चेद्वेद । तस्माच्चेव प्रमाद्यति । शरीरे

पाप्मनो हित्वा । सर्वान्कामान्त्समश्नुत इति ।

 निश्चयविज्ञानवतो हि कर्तव्येष्वर्थेषु पूर्वं श्रद्धोत्पद्यते, सा सर्वकर्तव्यानि प्राथम्याच्छिर इव शिरः ।'ऋतसत्ये' यथाव्याख्याते एव । योगो युक्ति: समाधानम्, आत्मेवाऽऽत्मा । आत्मवतो हि युक्तस्य समाधानवतोऽङ्गानीव श्रद्धादीनि यथार्थप्रतिपत्तिक्षमाणि भवन्ति, तस्मात्समाधानं योग आत्मा विज्ञानमयस्य । महः पुच्छं प्रतिष्ठा । 'महः' इति महत्तत्वं प्रथमजम्,"महद्यक्षम् प्रथमजं वेद" इति श्रुत्यन्तरात्, 'पुच्छम्’ प्रतिष्ठा कारणत्वात् - कारणं हि कार्याणां प्रतिष्ठा, यथा वृक्षवीरुधां पृथिवी। सर्वविज्ञानानां च महत्तत्त्वं कारणम् । तेन तद्विज्ञानमयस्याऽऽत्मनः प्रतिष्ठा ।

 तदप्येष श्लोको भवति पूर्ववत् । यथाऽन्नमयादीनां ब्राह्मणोक्तानां प्रकाशकाः श्लोकाः, एवं विज्ञानमयस्यापि ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः


कृतौ तैत्तिरीयोपनिषदि ब्रह्म-आनन्द -वल्लीभाष्ये चतुर्थोऽनुवाकः ॥ ४ ॥


 विज्ञानं यशं तनुते । विज्ञानवान् हि यज्ञं तनोति श्रद्धादिपूर्वकः । अतो विज्ञानस्य कर्तृत्वं-तनुते’ इति कर्माणि च तनुते । यस्माद्विज्ञानकर्तृकं



इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दशनविरचि तैत्तिरीयोप
निषच्छांकरभाष्यटिप्पणे ब्रह्म-आनन्द-वल्ल्यां चतुर्थोऽनुवाकः ॥ ४ ॥


(१) गुरुशात्राभ्यामभिहिते तत्त्वे, तदवबोधापाययोश्च परमो विश्वासः । यद्यपि श्रद्धादयो वृत्तिरूपत्वान्म- नोमयस्य कार्याः, तथापि विशानमयस्य कर्तृत्वेन करणतदृतिस्वामित्वान्मनोवृत्तय एतदीया अपि भवन्तीत्य भिप्रेत्य विज्ञानमयस्य श्रद्धा शिर इत्युच्यते । (२) उपपद्यते-पाठः । (३) पृ. ८(४) अध्यात्मशास्त्र निश्चयः समाधानरूपः, दक्षिणोत्तरपक्षाभ्यां चित्तशुद्धिद्वारोपकार्यत्वेन मध्यभागः(५) हिरण्यगर्भाख्यं- सूत्रम् (६ ) वृ. ३. ५,४. १. यक्षम् = पूज्यम् । (७) न्यायवैशेषिकादिशास्त्राणि मिथ्यात्मन्येव कर्तृत्वा दियुक्त उपक्षणानि । सांख्यशास्त्रं यद्यपि चिदात्मनि मुख्ये प्रवृत्तं, तथापि तावत्येव पर्यवसितम् । वेदान्तास्तु तस्य मुख्यात्मन ईश्वरवमशेषजगद्धेपत्वं च प्रतिपादयन्तीति विशेषः । अत्र शकाराकारस्य सानुदात्तः पाठोऽपि वैदिकेषु प्रसिद्धः।