पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/११४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७६
[ ब्रह्म-आनन्द-वल्ली
तैत्तिरीयोपनिषत्


तस्वोपास्य- स वा एष पुरुषंवैध एव तस्य पुंसृषविधताम् ।

अन्वयें पुरुषविधेः । तस्य अजैव शिरः।
ऋतं दक्षीिणः पुत्रः । सत्यमुत्तंरः पक्षः । योंग
आत्मा । महः पुच्छं प्रतिष्ठा ।

तदप्येष श्लोको भवति ।

इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि ब्रह्म-आनन्द-वल्ल्यां

चतुर्थोऽनुवाकः ॥ ४ ॥

यात्मिका विज्ञानं, तच्चध्यवसायलक्षणमन्तःकरणस्य धर्मः, तन्मयः-—निश्चयं विज्ञानैः प्रमाणस्वरूपैर्निर्वर्तित आत्मा-विज्ञानमयः । प्रमाणविज्ञानपूर्वको हि य आदिस्तायते । यज्ञादिहेतुत्वं च वक्ष्यति श्लोकेन ।


 (१) इदमित्थमेवेति विषयपरिच्छेदः (२) मनोवृत्तीनां मध्ये विशिष्टं ‘अहं कतों” इत्येवंरूपं वृत्तज्ञान यस्य कर्तृत्वधमपेतस्य वस्तुनो ग्राहकं भवति, तद्वस्तु विज्ञानम् तस्य विकारो विज्ञानमयः। रजमिश्रसव गुणकार्यं हि विज्ञानमहंप्रत्ययविषयाभिमन्तृरूपेण विक्रियते । तमेतमभिमन्तारं सर्वे जनां अहंप्रत्ययेन विषयं कुर्वंन्ति । द्विविधो मनसः प्रत्ययः इदंप्रत्ययः, अहंप्रत्ययश्चेति । तत्रेदंप्रत्ययो बहिर्मुखतया ’प्रमातुरन्यपदार्थ प्रमेयं विषयीकरोति । अहंप्रत्ययस्त्वन्तर्मुखः प्रमातरमेव विषयीकरोति । योऽयमहंप्रत्ययविषयोऽभिमन्ता सर्वेषु प्रमाणव्यवहारेषु प्रमाता, सोऽयमत्र विज्ञानमयः । नन्वात्मैव व्यवहारस्य कर्ता भवति६. न त्वस. विशनमया ख्यश्चतुर्थः कोशः। अत एव भगवान् बादरायणः कर्ता शास्त्रार्थवत्त्वात्” (ब. सं. २.३.३३) इति सूत्रया मास । नायं दोषः--आरमकर्तृत्वस्यौपाधिकत्वात् । एतच्च ‘यथा च तक्षोभयथा” (ज. सं. २.३.४०) इत्येवं सूत्रितम् । तर्हि पूर्वोक्तबाह्यन्द्रियान्तःकरणसमूहरूपमनोमयस्य संयोगेनैवात्मनः कर्तृत्वसिद्धौ किमनेन विशन- मयेन ? इति चेन्मैवम् । यदि ब्राह्मणादौ प्रासादगोचरज्ञानक्रियाशक्त्योरभावात्तऽपेक्ष्यते, तर्हत्रापि सर्वव्य वहारगोचरज्ञानक्रियाशक्तियुक्तो विज्ञानमयोऽपेक्ष्यते । न चासङ्गस्यात्मन आरोपमन्तरेण शक्तिद्वयं संभवति । आरोपश्च क्कचिन्मुख्यस्यैवाधारान्तरे दृश्यते-बिलगते हि सर्प मुख्यं सर्पत्वं रज्जावारोप्यमाणं दृष्टम्; तस्मा- दत्रापि विशनमये मुख्यं शक्तिद्वयं चिदात्मन्यारोप्यताम् । सोऽयं कर्तृत्वशक्तियुक्तो विज्ञानमयः करणशक्तियु क्तान्मनोमयादभ्यन्तरः । नन्वेकस्यैवान्तःकरणस्य तत्त्वस्यमनोबुद्धथइंकारचित्ताख्याश्चत्वारो वृत्तिभेदाः । एते च वृत्तिविशेषाःक्षणिकाः कालभेदेनैवोत्पद्यन्ते‘युगपज्ज्ञानानुत्पत्तिर्मनस लिङ्गम्”(:१..१६) इतिन्यायात् । तथा सति वृत्तिमात्रस्वरूपयोर्मनोमयविज्ञानमययोरन्नमयप्राणमयवत् पृथक्तत्वरूपत्वाभावाद्भिन्नकालनत्वाच्चा न्तर्बहिर्भावो न युक्त इति चेत्, न ; करणरूपेण कर्तृरूपेण च तयोस्तत्त्वभेदाद्वकारात् । पूर्वोक्ता मनोबुद्धया दयश्चत्वारोऽपि करणस्यैव व्यापारविशेषाः । कर्तुरूपं तु करणात् पृथगेव तत्त्वम् । तच्च बुद्धिशब्देनविश- नशब्देन, अहंशब्देन च तत्र तत्र व्यवहियते । अयमेव कर्ता भोक्ता नैयायिकादिमतसिद्ध जीवात्मा । सांख्या वैवमाहुः-अंतकरणं त्रिविधमिति । तत्रेन्द्रियाणामेकादशसंख्यापूरकं मनोनामकमेकम् । अहंकारतत्त्वं द्वि तीयम् । महत्तत्त्वं तृतीयम् । तेष्वहंकारमेवं लक्षयन्ति-अभिमानोऽहंकार इति । स एष चितिच्छायोपेतो ऽहंकारोऽत्र विज्ञानमयः।