पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/११३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अथ चतुर्थोऽनुचा

मनामय श्लोकः यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह ।

आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदः
चनेति ।
तस्यैष एव शारीर आत्मा । येः पूर्धस्य ॥

विज्ञानमयकोशः तस्माद्वा एतस्मन्मनोमयात् । अन्योऽन्तर

आत्मा विज्ञानमयः । तेनैष पूर्णः ।

यतो वाचो निवर्तन्ते । अप्राप्य मनसा सहेत्यादि ।

 तस्य पूर्वस्य प्राणमयस्यैष एवाऽऽत्मा शारीर-शरीरे प्राणमये भवः ‘शारीर' । कः ? य एष मनोमयः ॥

 तस्माद्वा एतस्मादत पूर्ववत् । अन्योऽन्तर आत्मा विज्ञानमयाँ मनम यस्याभ्यन्तरो ‘विज्ञानमयःमनोमय वेदामोक्त; वेदार्थविषया बुद्धिर्निश्व-  वाङ्मनसयोर्वाङ्मनसगोचरत्वं नोपपद्यते, स्वात्मनि वृत्तिविरोधात्, अतो वाङ्मनोवि शिष्टान्मनोमयाहूचो मनसा सह निवर्तन्त इत्यर्थःतस्य च मनोमयस्य ब्रह्मण उपासनफ लभूतमाधिदैविकमानन्दं विद्वान्न बिभेति गर्भवासादिदुःखादित्यैर्थः ।

 वेदर्थेति । तथऽध्यवसायलक्षणं चैौकिकमपि विज्ञानं ग्राह्यमेत्यर्थः ।


(१) अस्य श्लोकस्य मुख्यधृऽग्रे ९ अनुवाके भाष्ये द्रष्टव्यः। कोशप्रकरणविरोधात् परब्रह्मपरिग्रहोऽत्र नोपपद्यते । ब्रह्मव वामनसयोरविषयः, व्यतिरिक्तं सर्वे ययोर्विषयत्वेनैव वर्तते, ते वाङ्मनसे मनोमयकोशे निर्दिश्येते । न हि मनसः साक्षिवेद्यत्वेनानपेक्षस्य वागादिविषयत्वं, वृत्तिविरोधाच्च न स्वविषयत्वं, मूत्रस्य महत्त्वत् तदात्मके मनसि ब्रह्मशब्दश्चोपपद्यते, तस्य ब्रह्मणो मनोमयस्याऽऽनन्दमुपासनाफलं विद्वान्, उप सनातो ब्रह्मानन्दं च प्राप्य हिरण्यगर्भावस्थायां कदाचिदपि न बिभेतीति मन्त्राक्षराण्यपि कोशपक्षे निर्वहन्ति।

(२) वृत्तिसंघं प्राणमयं ध्यात्वा देहात्मवासनाम् । संत्यज्याथ प्राणमये त्यजेद्देहवदात्मताम् ।५७ ॥
प्राणो नात्मा जडत्वेन चेतनस्यारमतोचिता । मनस्तु चेतनत्वेन सर्वस्य प्रतिभासनात् ॥ ५८ ॥
चक्षुराद्यक्षसापेक्ष मनो बाह्यार्थभासकम् । निरपेक्षेण मनसा सुखाद्यन्तरभासनम् ।। ५९ ॥
आत्मत्वं मनसो बुद्धा त्यक्तुं प्राणात्मवासनाम् । उपासीत मनस्तच वृत्त्याख्यावयवैर्युतम् ॥ ६० ॥
यजुराद्याश्चतुर्वेदा आदेशैस्तदंते विधिः । तद्भासके मनोवृत्तिपञ्चके पक्षिकल्पना ॥६१॥
अवाङ्मनसगम्यस्य ब्रह्मणोऽप्यवबोधने । शक्तं भवेन्मनस्तच मनो ब्रहृति कल्पना ॥ ६२ ॥
न ब्रह्मणि मनोजन्यस्फूर्तिस्तस्मादगम्यता । मनस्यंन्तर्मुखे नश्येदविद्य तेन शक्तिता ॥ ६३ ॥

तात्यकवचाप्रकाश (३) °त्यर्थः। त'। इति पाठः । (४) ०था व्यव' इति पाठः ।