पृष्ठम्:तिलकमञ्जरी.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८ काव्यमाला। पाशं श्रवणयुग्ममूर्धवलितपुच्छनालनिबिडालिङ्गितासमुकुलफणकपर कालसर्पद्वयमिवोद्वहन्तम् , शिखिकणारुणया तिर्यग्विसर्पिण्या फणम- णिकिरणमालया जटालीकृतसरलभोगेनाला()भ्यामलधुना निष्पतन्त- मोघेन घोणापुस्चासमुभयतः पातुमवतीर्णाभ्यां कर्णाभरणविषधराभ्यां द्विधाप्यधाकृतोष्ठपृष्ठलोमलेखम् , मुहुराख्दश्यता मुहुर्त्यञ्चता मुहुः प्रा- ञ्चता तिर्यगजगरदेहदीर्घपृथुलेन जिहालताण ललाटचिबुकसकमान्तग- तमामिनरागमेदःकर्दममाखादयन्तम् , अन्तचलितपिङ्गलोग्रतारकेण करालपरिमण्डलाकृतिना नयनयुगलेन यमुनाप्रवाहमिव निदाघदिनकर- प्रतिबिम्बगोदरेणावर्तद्वयेनातिमीषणमाभोगिना ललाटस्थलेन सधः- स्थापितमसृम्पकपञ्चाङ्गुलं पचनाय नरजाङ्गलाना नामुपसंगृहीतं चिता- मिमिव सहज कुटिधूमान्धकारपरिगतं दधानम् , ऊर्ध्वखितेन खिरत- डित्तन्तुसंतानस्थानकविडम्बना कपिशभासुरेण केशभारेण भर्स्यन्तम्, उपरि जाज्वल्यमानज्वालाखण्डमुत्पातधमदण्डमायतनमित्तिसजिना बलि- प्रदीपप्रभाप्रकाशितेन केशनवदशनवर्जमात्मनो निर्विशेषच्छायेन प्रति- च्छायापुरुषेण पार्श्वचारिणा सानुचरमिव दृश्यमानम् , घोणयाप्युत्फुल्ल- स्कारपुटया धृतातिविकटपत्रपुटयेव पीयमानवदननिर्यद्वसामोदम् , दशनमालयाप्यन्तरालप्रविष्टकुणपाखिशकलया सकलत्रिभुवनाम्यवहाराम सहायीकृतानन्तदन्तयेवाक्रान्तमुखकुहरम् , चरणालीभिरपि स्फुरित- पाण्डनिमोदरनखाभिर्मुखार्पितकपालक'राभिरिव प्रतीष्यमाणान्तरीय- नरचर्मक्षरक्षतजकणवर्षम् , अस्थिनू पुरैरपि पदप्रयोगमुखरैर्भयप्रस्तुत- स्तुतिभिरिव सततसेवितचरणम् , आभरणभुजगैरपि ज्वलदुन्मयूखफण- मणिमिरात्तप्रदीपैरिवावगाथमानकज्जलकालकायप्रभान्धतमसा मांसेनापि सादनमीतेनेव सासेण परित्यक्तसर्वावयवम् , अवयवानप्यखिसारान