पृष्ठम्:तिलकमञ्जरी.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६ काव्यमाला स्पर्शमर्हति । दिव्या हि मूर्तयो भाजनं दिव्यामरणानाम् । तेन बावक एवं परिवारलोके मवतु । कस्यचिदनुभवतु वादृष्टोदयान्मनुष्य- लोकमागतमपि पुनस्त्रिदशलोकस्थितिसमुचितं शोमातिशयम्' इत्यमि पाय सं हाररत्नं देवतायाश्चरणयोः पुरस्तादमुञ्चत् ।। अत्रान्तरे नितान्तमीषणो विशेषजनितस्फातिरास्फालिताशातटैः प्रतिफलद्भिरतिपरिस्फुटैः प्रतिशब्दकैः शब्दमयमिवावधानस्त्रिभुवन - द्ध्रान्तनयनतारकाकान्तिसारीकृतदिग्भिराकर्णितः सन् समयमुभयकर्ण- दत्तहस्ताभिरायतनदेवताभिः कुलिशताडितकुलाचलशिखरसमकालनिप- सद्गण्डशैलनिवहनादोद्धरो हासध्वनिरुदलसत् । उपश्रुत्य च तमश्रुत- पूर्वमुर्वीपतिरुपजातविस्मयः पस्पर्श चेतसा कियन्तमपि हासम्, न तुं स्वल्पमात्रमपि संत्रासम् । अनुज्झितस्वभावावस्थितिश्च स्थित्वा मुहूर्तम- द्भूतकौतुकतदनुसारेण संचारयामास तिर्यम्वलिततारकं चक्षुः । दक्षि- तरविभागे संनिहितमेव देवताया झगिति दत्तदर्शनं निदर्शनमिवा- शेषत्रिभुवनमीषणानाम् , अतिकृशप्रांशुविकरालकर्कशकायम्, अलि- कुलकोमलेन प्रसरता समन्ततः कान्तिकालिना कज्जलमयीमिव सशै- लद्वीपकाननामुर्वी कुर्वाणम्, अनतिपुराणशुक्तिकाश्रेणिसितमासा हासदूरप्रकटिताया दन्तपङ्के प्रतिमयेव पुरः स्फुरन्त्या स्थूलपृथुलमा नखपरम्परया प्रकाशितनिजप्रमातिमिरतिरोहतचरणयुगलाङ्गलिविमा- गम, आद्वास्थिनूपुरेण स्थवीयसा चरणयुगलेन रासमप्रोगधूसरं नख- प्रमाविसरमनेकवातिकमण्डलं भ्रमणलग्नं रक्षाया भूतिरज इव दिक्षु विक्षिपन्तम्, अक्षुद्रसरलशिरादण्डनिचितेन निश्चेतुमुच्छायमूर्ध्वलोकस्य सगृहीतानेकमानरज्जुनेवोपलक्षमाणेन गगनसीमोल्लघ्निना जहाद्वितयेनं निरन्तरारुढसविततव्रततिजालयमलतालशिखरनिषण्णमिव दृश्यमानम्,