पृष्ठम्:तिलकमञ्जरी.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी स्मरणानि चात्यन्तर्विस्मयकराणि पूर्वजातेः । अतो नायमालापो मोहप्रलाप इति मे समर्थनीयः । कदर्थनीयश्च पुनरहं प्रार्थनामङ्गदै- न्यसंपादनेन' इत्युदीर्य कण्ठादवतार्य किंचिदवनतेक्षणो दक्षिणकरेण लमघवलनस्वकिरणमालमुपस्थितनिरवसानसुरलोकविरहव्यवाया विदी- हृदयोद्गीर्णगर्भामृतच्छटासारसिव हारमुपनिन्ये । नरेन्द्रोऽपि तेन चर्मचक्षुषामगोचरेण तस्य साक्षान्निजदिव्यरूपाविष्करणेन तेन स्मितो- द्भेदपूर्वेण वक्षसि रचितकोमलकरामञ्जलिना यत्र प्रथमाभिभाषणेन तेन सुरपतिप्रशंसाप्रकाशनपुरःसरेण विस्तरवता स्ववृत्तान्तकथनेन तेन च दूरं परिहृत्य दिव्यतावलेपस्पृहणीयेन प्रतिग्राहणाय भूयोभूयः कृतेन प्रणयप्रार्थनेन दूरमावर्जितमनाः प्रकृतिनिःस्पृहोऽपि परोपचारेष्वति- स्पृहयालरिव सत्वरमुपसृतः प्रसार्य करयुगलमग्रतस्तं जग्राह ॥ देवोऽथ सावलक्षितगतिस्तस्मिन्नेव क्षणे झगित्यदर्शनमगमत् । तिरोभूते च तस्मिन्नुपजातविस्मयो नरपतिनिरीक्ष्य चक्षुषा निश्चलेन तं हारमुत्तरीयाञ्चलैकदेशे बबन्ध । प्रविश्य च शक्रावतारायतनमध्य- माराध्य भगवन्तमतिचिरमादिदेवमागत्य निजसदनमुपपाय भक्त्यति- शयेन श्रियः सायंतनी सपर्याममिमुखीभूय तन्मुखे निहितनिश्चललो- चनो निषसाद । निजगाद च--'भगवति, त्वच्चरणपादविन्दसेवानुभा बोऽयम् , यदस्माद्दृशामपि मनुष्यमात्राणामशेषत्रिभुवनमाननीया वास- वसमानौजसो वैमानिकाः संनिधिमभिलषन्ति, योगिज्ञानगोचरं चा- मनो रूपमध्यक्षविषयीकुर्वन्ति, प्रकटितसंभ्रमाश्च दृष्टिदानसंभाषणा- दिना बहुमानेन महिमानमारोफ्यन्ति । एतच्च यद्यपि अनिमित्तव- न्धुना परोपकारपराधीनमानसेन महात्मना तेन दिव्यपुरुषेण सवाङ्गभूष- णीकृतमाभरणमेकं दत्तम् , तथापि स्वदीयमेतत् । अतो न मे शरीर- +