पृष्ठम्:तिलकमञ्जरी.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमा विनश्चरखमावतावेदनेन हृदयेऽस्य वाहकारिण्यरतिवेदना । देयो दिव्यशक्त्यनुरोधेन सुगतिसाधनेषु धर्मकार्येषु सविशेषमुपदेशः । ततस्तेन सह पूर्वानुभूतसुखदुःखवृत्तान्तकथाव्यतिकरेण नीत्वा विमा- वरीमेतां विभातकाले कथमपि प्रार्थितपुनर्दर्शनेन पुनरपि प्रतीपं निवर्तितव्यम् । कर्तव्यं च किमपि कालोचितमकृतकारक्षेपेण ख्याते: सुखस्य चामुष्मिकस्य साधकं कुशलानुष्ठानम् । यतो ममापि निष्ठित- प्रायमायुः । अल्पावशेषा त्रिदशलोकस्थितिः । उपस्थितो दीर्घकालप- रुढगाढप्रणयकिभिः साकमात्यन्तिको विरहः। समासन्नीभूतमुर्वशी- प्रमुखसुरवधूमुखारविन्दादर्शनम् । अदृश्यतां गतास्त्रिदशपतिसदसि हृदयदस्यवो रंभालास्थकरणप्रयोगाः । विप्रयोगोन्मुखं तुम्बुरुमुखेन अवणरन्धमधुरगान्धारग्राममूर्छनाश्रवणम् । उच्छन्नकल्पा कल्पतरुक- ताछन्नेषु नाकमन्दाकिनीकच्छेषु खेच्छाविहारक्रीडा । क्रोडीकृतं मनुष्यलोकावतारस्मरणपीडया निबिडमन्तःकरणम् । आकारितदुःस- संहतिरभिमुखीभूता सपरिजनेव गर्भवास एव नरकगतिः। ईदृश च सर्वतः समुपस्थितातिदुर्वारव्यसनजाते सर्वतोमुखप्रसूतदुर्विषहरोक- संततौ संतापकारिणि कातराणां वैक्लव्यदायिनि क्लीवानामुपजनितसंसा- रसुखवैमुख्ये विवेकिनमुदीरितपरोपकारबुद्धावुदारचेतसामतिदारुण- दशापाके कथंचिदुपजातसंगमस्थ सुरपतिप्रशंसाश्रवणदिवसादारभ्य प्रतिदिवसमभिलषितदर्शनप्राप्तराकारदर्शनेनैव प्रशमितसकलहृदयो- द्वेगतमसो महात्मनः न च सर्वात्मना प्रियं कर्तुमन्तःकरणमुत्सहो मदीयम् । मन्दायते च त्रिभुवनातिशायिसत्वमलब्धतां च तावद प्रागुपश्चतां विचिन्य प्रत्याख्यानलाघवमुत्प्रेक्षमाणम् । अतो न शक्नोमि सर्वथैवोपचारकिवापरामुखो भवितुम्, नापि यथासियतवस्तुप्रार्थन्म