पृष्ठम्:तिलकमञ्जरी.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी च्छिन्नमलिनच्छाया, चिन्ताविसंस्थुलगृहस्वगीर्वाणपरिहतसर्वनिजनि- जव्यापारा, गलितगर्वगन्धर्वशिथिलितगीतगोष्ठीस्वरविचारा, विषण्ण- साध्यपरिषदा, विखिन्नसिद्धनिषिध्यमानगानोन्मुखमुखरकिंनरकुला, पानकेलिनिरपेक्षयक्षशून्यीकृतोपवनतरुखण्डलतामण्डपा, नष्टहर्षकिंपुरु- षनिर्भर्त्स्यमानपरिरम्भणायातवल्लभतरुणीगणा, रणरणकगृहीतगृहदेव- तावनदेवतासदुःखदृश्यमानतत्क्षणम्लानकल्पपादपा, संतापविधुरविष- घरवधूसततपार्थ्यमानचन्दनलतागृहावस्थाना, स्थानस्थानपूज्यमानखिन्न- सिद्धायतनदेवताप्रतिमा, प्रतिमन्दिरमाकर्ण्यमानश्रवणदुष्टहाकष्टशब्दा दृष्टा । मन्दिरमपि तदीयमप्रवृत्तोत्सवं धृतानुचितवेषनिापारनिःशेष- करनं चित्रशालाखसंपाद्यमानहरिचन्दनपङ्कोपलेपनं मणिकुहिमेष्वक्रिय- माणकनकपङ्कजोपहारक्षेपं द्वारतोरणरणरणायमानचण्डपवनेरितशुष्कक- तिफ्यप्रवालवन्दनमालं मृदङ्गपटहादिवाद्यध्वनिशून्यनिःशेषनाट्यशालम् अश्रुयमाणचारणमिथुनमालोच्चारम् अनाकर्ण्यमानकिंनरकन्यकावल्लकी- शाहारम् अप्रमत्तविबुधयोधशतसंरक्ष्यमाणगोपुरप्राकारम् असुरापहार- मीतभव्याप्सरःपरिहृतखेच्छाविहारम् उद्यानवापीष्वनारभ्यमाणविभ्रम- मज्जनम् उद्विग्नसकलपरिजनं दृष्टम् । इदं चारिष्टमतिकष्टमप्रतिविधेयं विधिवशात्तत्तत्रोपजातं तस्य तत्कलत्रस्य वा प्रधानस्य अचिरकाल- भाविनं विनाशमवश्यतया निवेदयति । न हि येषुकेषुचिदनर्थोप- निपातेषु कदाचिदपि दिव्यानामास्पदेषु संपद्य नू(१) ईदृशाः पदार्थानां प्रकृतिविपर्ययास्तस्तंनिवासिनां च विबुषलोकानामन्तरत्यन्तशोकातङ्क- शंसिनो हृदयायासाः। तेन च मया तत्र गत्वा द्रष्टव्योऽसौ कदाचि- दप्यदृष्टदीर्घमद्विरहदुःखसखा सुखयितव्यः सर्वकालममिलषितमदर्शनो निजदर्शनेन । शमयितव्या दिव्यलोकच्यवनसुलभा सर्वमावान।