पृष्ठम्:तिलकमञ्जरी.pdf/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२२ काव्यमाला। 'विजनमादिश्यताम्, येन द्वारि विद्याधरपतिर्विचित्रवीर्यस्य वल्लभतमः कल्याणको नाम दारकः श्रावयति कार्य किमपि कमनीयम् । आकर्ण्य चैतदपसृतेषु वयं समरकेतुप्रभृतिषु सगौरवं व्याहृतो वेत्रधार्या प्रविश्य स कृतप्रणामः कुमारस्यापतो लेखमक्षिपत् । उपनीतविष्टरोपविष्टे च तस्मिनयोध्यापतिसुतः सदोषमादाय तमवाचयत् –'स्वस्ति । त्रिकू- टाचलादाजा विचित्रवीर्यः खसौन्दर्यतुलितसुरलोकशोभासमृद्धावुत्त- रश्रेण्यामाश्रितजनशरण्यमनन्यसाधारणगुणाधारं महाराजपुत्रहरिवाहन- मशेषपृथ्वीविजयलाभाशिषा संयोज्य निजशरीरारोग्यवार्तया सुखयति। कथंचिदुपजाततर्षेण झटिति संजातघटनं वरत्वेन परिकल्प्य भ्रातरं ते समरकेतुमद्यैव क्त्साया मलयसुन्दाः प्रस्तुतो मया विवाहोत्सवः कर्तुम् । आनीता च रभसेन समनन्तरेऽहनि । तथैव विभ्रति वनवा- सवेषमेषा खनिवासमायुष्मती । निमनितो मित्रज्ञातिलोकः । स्थापितं लमम् । अन्यदपि कृतमशेषमात्मसे(शे)मुखी(पी)समुचितं कृत्यम् । तदयमल्पबुद्धिबन्धुजनजल्पबाधितो मत्संकल्पः कल्पायुषा नोपहास्थता नेयः' इति विचार्य चामुष्य तात्पर्यमुपजातहषों हरिवाहनः सवि- सायेन मनसा व्योमचरदारकमप्राक्षीत्-'सौम्य, कथमन्यद्वीपवासिना तातेन दूरदेशान्तरादायातमात्रो युवराजसमरकेतुरवगतः । कथमवि- ज्ञातकुलशीलः खदेशप्रभवेषु गुणवत्सु विद्यमानेष्वन्येष्वनेकेषु विद्या- घरदारकेषु क्षितिगोचरोऽपि वरत्वेनाङ्गीकृतः । कस्य बुद्ध्याध्यवसित- मिदमकस्मादुत्सुकेन भूत्वा कार्यम्' इति पृष्टः प्रहृष्टचेतसा स पुनर- ब्रवीत्'देव, सर्वमावेदयामि । श्रूयताम् । इतो वासरादनन्तरे- ऽहनि जिनायतनकाननान्निर्गत्य निजराजधानीमभिप्रस्थिते देवे गता- यामात्मभवनं भर्तृदुहितरि तिलकमञ्जर्याममन्दसंवृतानन्देन विद्या-