पृष्ठम्:तिलकमञ्जरी.pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमञ्जरी। तेषु तेषु खविमानसद्मसु प्रभूतेषु भारतैरावतादिषु वर्षेषु मेर्वादिषु नगेन्द्रेषु पद्मादिषु कूलाद्रिचूलाइदेषु नन्दनादिषूद्यानेषु त्रिपथगासिन्धुपु- रःसरीपु महासरित्सु पुष्करक्षीरोदमुख्येषु नीरधिषु नन्दीश्वरप्रभृतिषु च वरद्वीपेप्वन्येषु च निसर्गसुन्दरेषु भुवनभागेषु विहरता सार्धमन्वहम- नुचरैः कलत्रैभित्रैश्च यानि प्रमादपरतन्त्रेण प्रस्तुतानि हसितजल्पितक्री- द्वितानि तानि शक्यन्ते । किं च तैः स्मृतैरपि खमविज्ञानसदृशैः फलं साध्यते । केवलं यत्तदा स्वर्गच्यवनसमये म्लायता दिव्यमाल्येन, ग्लायता गात्रलावण्येन, मीलयता नेत्रयुगलेन, स्खलता निर्देशदानेन, नश्यता त्रिदशभावेन, मूर्छता मनसि लोकान्तरगमनचिन्तादुःखेन, विलपता परिजनेन, क्रन्दन्तीषु पार्श्वतो निरानन्दासु स्वयंप्रभाप्रभृ- तिषु प्रियाङ्गनासु यन्मनागपि न चलितं सूतं च यदनेकशः सदसि विस्मितैः सहवासिविबुधैस्तदधुना विध्यते वैक्लव्येन सत्त्वम् । तदलम- तीतवस्तुनिर्बन्धेन । विधेहि धैर्यमवलम्व्य सत्वरः सांप्रतकालोचितं कृत्यम् । उत्तिष्ठ तावत् । गाढमुत्कण्ठितायाः सुचिरकालादुपलभ्य दर्शनं दर्शय द्रविडराजदुहितुरात्मानम् । सा हि ते जन्मद्वयप्रणयिनी पूर्वजातिस्मरणविहला दिव्यरत्नाकुलीयकालंकारदर्शनात्प्रभृति मूली मुहुर्मुहुरनुभवन्ती वनप्रवेशाप्रभृति वार्तायां च सर्वात्मना तब क्षीणायां क्षणे क्षणे मरणदुःखादप्यधिकवेदनं शोकमुद्रहन्ती दुःखमास्ते' इति वारंवारमुच्चारयति हरिवाहने त्रपावनतवदनोऽङ्गाधिपः शनैर- वदत्-'कुमार, किमर्थमावेदयसि मे । यदि तदाश्वासने यत्नः, पहिणु कंचिदमदागमनवार्ताहरं खानुचरम् । अहं तु कृतविप्रियः प्रियंवदा- भावतः प्रभृति तस्यास्त्रपया न शक्नोमि वीक्षितुं वदनम्' इति वदत्येव तत्र प्रविश्य विहितप्रणामा प्रतिहारपाली हरिवाहनं व्यजिज्ञपत्----