पृष्ठम्:तिलकमञ्जरी.pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमञ्जरी। ४२३ घरधुराभृता प्रस्तुते सविस्तरमुत्सवे, ध्वनत्सु सर्वतो वादित्रेषु, नृत्यत्सु प्रतिगृहं पौरेषु, प्रवृत्तासु नगराङ्गनामङ्गलगीतिषु, वितीर्यमाणेष्वन्यो- न्यमनिवास्तिकरेषु कुसुमताम्बूलपटवासेषु, पिष्टातकरजःपुञ्जपिञ्जरि- तरोदसि, विसारिमागधजनजयध्वनौ, अबाधितागच्छदनिबद्धलोकदुः- खलभ्यान्तरे क्षणेनैव जातेऽन्तःपुरे, सत्वरमुपेत्य सविकासमुखपङ्कजा मृगाङ्कलेखा नाम तिलकमञ्जर्याः प्रधानसहचरी खावासमन्दिराङ्ग- णनिहितमणिपर्यविकोपविष्टामुत्सवापतदनेकानीफनायकपुरंधिपरिवृतां प्रणम्य राजमहिषीं पत्रलेखामवोचत्-'देवि, वर्धसे सार्धमेवागतेन द्वितीयेन मलयसुन्दरीवरागमनोत्सवेन' इत्युदीर्य देवेनैव प्रथमद- शेने तिलकमञ्जर्याः प्रियत्वेन कथितं यथाश्रुतम् । कुमारसमरकेतुं वरीता रमाख्यदेव्यपि तदाकर्ण्य निर्भरोदीर्णहर्षा तोषतरलिताक्षी निरीक्ष्य निकषा निषण्णां चित्रलेखाम् 'सखि, स एष कल्याणा- नुबन्धी कल्याणसंपल्लाभः । तूर्णमुत्तिष्ठ । गत्वाद्यैव सर्वाङ्गविनिहत- महार्हमङ्गलालंकारां मलयसुन्दरीमेकशृङ्गादानय, येनैकलम एवं तस्यास्तिलकमञ्जर्याश्च युगपट्टयोरपि निरूपयामि पाणिग्रहणमङ्गलम्' इत्यवोचत् । असावपि तदाकर्ण्य सप्रमोदा प्रत्यवादीत्-'खामिनि, तवैव कृत्यमिदमसंनिधौ गन्धर्वदत्तायाः। किं पुनरिदं विचित्रवीर्य- देवेन कारयितव्यम्' इत्यादिष्टमास्ते दृष्टकालत्रयेण मुनिना । यदि समादिशसि तदनेनैव गत्वा त्रिकूटमधिकारिणं तमेव स्मारयित्वा विवा- हविधये प्रवर्तयामि' । 'तथा' इत्यभिहिता च सा तदैवोत्थाय सर्व यथोक्तमकरोत् । तदिति विज्ञापितं देवादिष्टम् । अधुना प्रस्तुतं समा- दिशतु देवः । प्रस्थापयतु जामातरं कुमारसमरकेतुम् । आसीदति समु- दितैग्रहगणितविद्भिरावेदितं करग्रहणलग्नम् । आस्ते वरमुखावलोक-