पृष्ठम्:तिलकमञ्जरी.pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। बापतन्तमपगतोत्साहं कतिपयसहायं चित्रमायमद्राक्षीत् । दृष्टमात्र एव च तत्र निश्चितत्वदीयावस्थाना विहस्य सविषादमानने मलय- सुन्दर्याः चक्षुरक्षिपत् । असावपि विलक्षदृष्टिः क्षणेन द्रष्टुमागतं दूरादेव तमपृच्छत् -'चित्रमाय, कुमारहरिवाहनः किमिति मायातः । स तु स्तोकमुपसृत्य विहितप्रणामः प्रावोचत्-~-'देवि, विज्ञापयामि । अस्त्युदनखनखराग्रहेतिखण्डितारातिकरिसंहतिः सिंह इव सिंहलेश्वरस्य चन्द्रकेतोरात्मजन्मा जन्मनैव सह समुत्थितेन खासुना समितिषु भुजस्तम्भसामथ्येन समरकेतुरित्यधिगतयथार्थनामा द्वितीयमिव हृदयमद्वितीयसौहृदः सुहृत्कुमारस्य । स पुनरधुना मयैव गन्धर्वकमार्थितेन भर्तृदुहितुस्तिलकमञ्जर्याः प्राभृतं कर्तुमात्तद्विरद- रूपेण लौहित्यतटपर्वताटव्याः कृतापहारं कुमारहरिवाहनमनुसरनर्ध- रानसमये विनिसृत्य शिबिरादसिलतामात्रसहायो भयानकानेकसत्त्व- संचारदुरवतारमुत्तरदिगन्तकान्तारमविशत् । कुमारोऽपि सांप्रतमितो गतः खावासमासन्नलोकादाकर्ण्य तमरण्यप्रविष्टमपहृतः खेहेन कर्तुमिव कृतप्रतिकृतमाशागृहीतो ग्रनाम इव लवमप्यकृतविश्रामः परिप्रम्य भूयांसि मण्डलानि तदेव शून्यं वनमविक्षत् । न तु कापि मित्रम- द्राक्षीत्' इति वदत्येव तस्मिन्नतर्कितोदीर्णदुर्वारशोका हा समस्तलोक- लोचनसुभग, हा निरन्तरोपभोगलालित, हा विहितपरमोपकार, कुमारहरिवाहन, तवाप्ययं सुकृतकर्मा दुरात्मना दैवेन विषमवनवास- दुःखप्राप्तिहेतुर्विहितः' इति वदन्त्येव निश्चलनिमीलितेक्षणा मलय- सुन्दरी मोहमगमत् । तां च तदवस्थामवेक्ष्य मुक्तायताकन्दं सुता सेरेन्द्रस्य-'हा मियसखि, त्वमपि दूरीकृतसकलसाझा संगता परमसम्येण विक्कवीकृता शोकेन' इत्युदीर्य सहस्तकृतवीजनालम्ध।