पृष्ठम्:तिलकमञ्जरी.pdf/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। ३९३ चैतन्यां तामकार्षीत् । अभाषत च---'भगिनिके, स मित्रं कुमारस्य समरकेतुः किं तवापि पूर्वपरिचितो येन विहितप्रशंसा तमनुशोचसि । किं च स यथा कुमारस्य न तथा तवापि कारणमरण्यवासस्थास्य संपन्नः । कथय मे तथ्यम्' इति तया वारंवारमनुयुज्यमाना विहस द्रविडराजदुहिता सबीडमभ्यधात्---'अयि नितान्तमाहिणि, गृहाण तावन्मूकताम् । न जाने कियन्तमद्यापि कालं कुसुमसुकुमारकायस्त- मेकान्तदुःसहं कान्तारबासक्लेशमनुभविष्यति कुमारः, इति चिन्तयन्ती न किंचित्क्षमा वक्तुमहमन्यत् । सखि, किमर्थं पुनरसौ कुसुमसुकुमार- कायस्तमेकान्तदुःसहं कान्तारवासक्लेशमनुभवति । यावदागत्य संपति विविक्ते भूरित्तरसान्द्रच्छायभूरुहि त्वदाश्रमवने कृतस्थिरावस्थितिः सर्वतो. विचरद्भिरनिवारितप्रसरैर्नभश्चरभटै तदनाकुलो मित्रमात्मीय- मनवरतमन्वेषयते' इति जातरोषायामिव प्रजल्पत्यां भर्तृदुहितरि सहासवचना मलयसुन्दरी वाचमसृजत्—'अयि मुग्धे, किमेतत् । तदायतमवनीचरो ह्यसौ सर्वतोऽप्यवारितगतिगिरिवि विगतपक्षो विहायस्थक्षमः संचरितुम् । आकर्ण्य चैतदुपलब्धावकाशा विष्वगव- लोक्य योग्यतावलोकिन्या दृशा प्रत्येकान्तिकस्थमनुजीविलोकं निवार्य च कथंचिदादेशमिव याचितुमधिज्यधन्वना कुमुमकार्मुकेण सह समुस्थितान्प्रसादवेपथुखेदपुलकादिकान्भावानुदासीनेव निखिग्धनयना मामवादीत्—'गन्धर्वक, गृहीत्वा तदस्माकमुत्तममाकाशयात्राविमानं तश्चाभिमानधनममिनवागतं विद्याधरसहस्रमधुनैव गच्छ तमरण्यकच्छम् । गत्वा च सत्वरः सपरिवारमानाय सदासन्नशैलनिर्झरवारिवृष्टावष्टपार- सरस्तीरदेवताराम कुमारहरिवाहनम् । आवासितस्य चास्य सततमास्त्र समियौ विदधदादेशम्' इति । ततः 'यदादिशति देवी' इत्यमिवाय