पृष्ठम्:तिलकमञ्जरी.pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। यक्षेण, किं वा शुकत्वमपि मायामयं मयि निवेशितम् , येन तत्कालमत्युपरितनभूमिकामेत्य भर्तृसुतया मलयसुन्दर्या यथा सवस्राञ्चलग्रन्थिमुन्मोच्य वाचितो वारंवारमस्पष्टलिपिरिष्टलेखः, यथा सरस्तीरतटनिविष्टेयमम्बया दृष्टा, यथा समाख्यातनिखिलपाच्यवृत्तान्तजातोकण्ठया कठिनमाश्लिष्य देव्या पत्रलेखया दिव्यं देवतायतनमानीता, थथानीयमानापि तयात्यादरेण यातुमनिच्छती खेचरपुरं सपरिचारिका तत्रैव विभूमिमठमध्यभूमिकाकृतास्थितिः स्थिता, यथोद्यानदीर्षिकारोषसि कुमारेण सार्धमारब्धसंलापायाः प्रस्तावमुपलभ्य याचिताज्ञोऽहमागतः समीपमस्याः, यथा 'समीपस्थेन दूरस्थितेन वा विपदमापनेन वा भवता विस्मर्तव्य एष सहसास्माभिः क्षणमात्रमुपजातो वचनपरिचयः' इति पुरा भाषितमनुस्मृत्य वचनं कुमारस्य नीतो मया लेखः, यथा च कमलगुप्तेनार्पितं प्रतिलेखमादाय शिबिरादागतः प्रीतमनसा कुमारेण सादरं समुक्षिप्य खाङ्कमारोपितोऽहमित्यादि सर्वमद्यापि पूर्ववृत्तं प्रत्यक्षमिव पश्यामि । केवलमियं भर्तृदारिका मलयसुन्दरी पतितमात्रैव तत्रादृष्टपारसरसि कथमपेतविषविकारा संजाता, कथं च निनिमित्चमेवाहं प्राक्तनं पुरुषरूपमापन्नः, इति न जानामि' इत्यादि यथावृत्तमावेद्य निजवृत्तान्तमुपशान्तवचसि गन्धर्वके समं मलयसुन्दरीतिलकमञ्जरीभ्यामन्येन चाभ्यर्णवर्तिना कन्यान्तःपुरजनेन सार्घमाबद्धविस्मयोऽतिचिरमतिष्ठम् ।

 आदाय च क्षणेन तं तदानीतलेखमुद्वेष्ट्यावधार्य च पुनः पुनरुत्युकस्त्वां द्रष्टुमन्तिकोपविष्टां मलयसुन्दरीमश्रावयम्-'खस्ति अभिमसप्रशस्तोद्देशवर्तिनः परमाराध्यानखिलविश्वोपकारिणः कुमारहरिवाहन पादपमान । लैहित्यतटबन्धोर्जयस्कन्धावारात्सराजकः कुशली कमल-