पृष्ठम्:तिलकमञ्जरी.pdf/४०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी।

गुप्तः क्षितितलसङ्गिना प्रणम्योचमाङ्गेन सविनयं विज्ञापयति-- यत्किंचित्कृतधिया समाज्ञापितं लेखमुखेन, यच्चान्यदामाति युक्तम् । तदनुकोऽपि सर्वमात्मनैव राजकार्य प्रतिकरिष्यामि । दुष्करः प्रतिविधातुमेक एव । यो युवराजसमरकेतुस्खेहः, स अवध्यो वृद्धोपदेशानामगोचरः सुहृदाश्वासनानां न जाने त्वत्प्रवासे किं व्यवस्थतीति महती ममाशहा ।' श्रुत्वा च सविशेषं त्वदभिधानमुद्भूतशङ्का 'किमन्योऽप्यति युवराजसमरकेतुर्यस्यैवंविधो दुःप्रतिविधेयः स्नेहः इति चिन्तयन्ती चकितमानसा कमलिनीव प्रचण्डहिमवाताहता मलयसुन्दरी झगिति विच्छायतामगच्छत् । दृष्ट्वा च मां परिम्लानवदनमुपलक्ष्यमाणनिजदेशगमनेजिताकारमपयुक्तापि स्तोकं परिवर्तितमुखी मन्मुखनिखातचिन्तास्तिमितलोचनारविन्दा विद्याधरेन्द्रदुहितरमवादीत्-'सखि, शुकोपनीतेनामुना निजपरिग्रहलोकलेखेन व्यग्रता क्षणेनैव नीतः खशिबिरं कुमारः प्रयातुमभिलपति । वनुमक्षमश्व खयं वदनुज्ञापनाय मन्मुखे वारंवारमवतारयति चक्षुः । वद्विसज्यता मिदानीमेवायम् । अखस्थमनसा न किंचिदमुना धृतेन । यातु तावनिजनिवासम् । आलोकयतु पर्याकुलं परिग्रहलोकम् । अस्तु निर्वृतमनाः । पुनरागमिष्यत्येव चाचप्रभृति दूरेऽवखितः सुधांशुरिव सिन्धुवेलायाः समासन एव कल्याणभागिन्या यदैव स्मरिष्यसि तदैवागमिष्यति । किं च प्रकृतिपेशलः प्रायशोऽयमपि सर्वातिशायिना सौहदेन कलाशास्त्रविचारकौशलेन च त्वदीयेन बुधजनादाकर्णितेन च कृष्यमाणो गतोऽपि रसिकतया न शक्ष्यति चिरं खातुम्' इति भाषमाणां तामनिच्छुरिव मोक्तुमवनतानना खित्वा चिरं तिलकमचारी लेरमवदत् --'सखि, किमर्थमभिदवासि माम् । त्वमेव जानसि २५ति.मं.