पृष्ठम्:तिलकमञ्जरी.pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। ३८३ स्वादनेन दुश्चेष्टितेन । क यासि । दृष्टः पतितोऽद्य दृष्टिगोचरे महोदरस्य । हृता हताश, ते विद्याधरकृता विहायसि चिरंतनी सा यदृच्छाचारिता यदि परमिदानी पक्षविक्षेपेण देवतायतनानि ला(योसि ।लधिमानमाश्रित्य शरणार्थमालोकयसि । किमलीकमेवाशानिराशीकृतोऽसि । दुष्कृतिकृतान्तेन न चिरादपि प्राक्तनी प्रकृतिमासादयिष्यसि विनासरस्वामिनीप्रसादम्' इत्सुदीर्य दत्तहुंकारः स्थानस्थ एवं तद्विमानं कथंचिदुक्षिप्य दूरमदृष्टपारे सरसि न्यक्षिपत् । क्षणेन च निमजनपतनवेगादुन्ममवति तस्मिन्नकरमादेव च शुकमावमापन्नमात्मानमद्राक्षम् । उपजातमूर्छश्च तिर्यग्जातिगमनदुःखावेगेन गमयित्वा, मुहूर्तमुड्डीय च द्वारदेशादेकनिहकनिविष्टः, 'क यामि, क निपतामि, किं करोमि, कमुपैमि शरणम् , को मां व्यसनसंकटादितः ऋष्टुमलम्' इत्यादि तत्तबहु विचिन्त्य, कुतोऽप्यदृष्टप्रतीकारस्तत्रैव देवतायतनमण्डले श्लथीकृतस्थानान्तरगतिः स्थितिमकल्पयम् । अलीकमेव हितलोकस्य दुःखहेतुना प्रकाशितेनात्मना न किंचित्फलम् । अलब्धविश्रान्तिनायमायुःपरिसमाप्तिकालं यावदनुभाव्यो मया शुकमावः' इति भावयित्वा च मनसि कस्याप्यदर्शिताभ्यर्थनो बन्धुजनमप्यनालसुहृद्वर्गमपि परिहरन् , गुरूणामपि निगोपयन्नात्मवृत्तम् , अवनीपतिपरिग्रहलोकदर्शनमात्रसंत्रातीवितः प्रभातसायाह्वेषु कृतदेवतागुरूनमस्कृतिरेकतरुशायिभिः क्रूराममिर्वनविहङ्कः सार्धमकृतसङ्गः नेहलिङ्गावधीरणपरोऽपि साधारणजातिजनितप्रीतिभिरनेकैः शुककुलैरागत्यागत्य परिवृतस्तत्रैव देवतायतनकानने परिश्रमन् , सर्वतस्तरुमलाहारसंपादितशरीवृत्तिरेतावन्ति दिवसान्ययापयम् । पूर्वजातिस्मृतिस्तु तिर्यक्त्वेऽपि मे नापयाता । किं तेनैव पश्चादुत्पन्नकरुणेन रक्षिता