पृष्ठम्:तिलकमञ्जरी.pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३८२ काव्यमाला। नारक इव निकामं क्रूरहृदयोऽसि । येनैवमाहतेन मया प्रतिकलमुपक्रम्यमाणोऽपि वपाषाण इव मार्दवं न मनागपि स्पृशसि । कथय केन प्रकारेण प्रगुणयामि त्वाम् । स एवमुक्तमात्र एव मया रोषरक्तेक्षणो ललाटतटविघटितभङ्गुरप्रकुटिराविष्कृतवेतालरूपः रेरेदुरात्मन् , अनात्मज्ञ, विज्ञानरहित, परिहृतविशिष्टजनसमाचार, विगतपारसंसारपत्वलपङ्कशूकर, महापापकारिन्, अखिलदुःखितपाणिवत्सलमतिविशुद्धधर्ममार्गविनिविष्टदृष्टिमविनीतजनशासनाय प्रभुजनेन नियुक्त सर्वदा शान्तायतनवासिनं मामपि महोदराख्यं यक्षसेनाधिपमधिक्षिपसि । रे विद्याधराधम, न जानासि मे खरूपम् । यादृशोऽहं तादृगहमेव । नान्यः । कस्य चामुखेन ख्यापयामि प्राक्तनं ते निजकृत्यम् । येयमब्धिप्रविष्टेष्टदर्शनदुःखविक्लवा पञ्चशैलकजिनायतनपर्यन्तवर्तिनः प्राकारवलयाकृतमपाता समुद्रजलसंगममप्राप्नुवत्येव नीत्वा काञ्चीमुपजातकरुणेन मया स्थापिता चित्रशालापर्यन्ते, सेयं नृपतिकन्या विगतन्यायोऽपि विद्याधरवितीर्णहरिचन्दनयोगतिलकप्रभावान्तर्हितामअतोऽपि स्थितामपश्यन्निमामपहृता में प्रेयसी कैश्चित्' इति मन्यमानतत्रैव लवणार्णवे मुक्तदेहः समुत्क्षिप्य नीतो मया स कर्णधारः सपचिपरिवारः खशिबिरवाह्यायाम् । सनौको राजपुत्रः सोऽपि संनिधौ नास्ति । तदरे दुराचार, क्रूरहृदयोऽहम् । न त्वमसि, यातिविस्तीर्णमनिवार्यमभ्यर्णवर्तिनं च विहाय व्योममार्गमनेकसुरसिद्धसाध्यविद्याघरवृन्दवन्दनीयस्य भुवनत्रयप्रथितयशसो विशिष्टदेवताविहितनिष्पतेरादिदेवतायतनमण्डपस्य शिखरामभागेन लीलया निबद्धलोलध्वज- पताकामुत्तमं यानमास्थितो यातुमभिलपति । मां च करुणया पुरोग्य कृतनिषेधम् 'अपसर' इति वारंवारमविशक्षितस्तर्जयसि । गतोऽस्याध-