पृष्ठम्:तिलकमञ्जरी.pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी

सिद्धिरस्माकम्' इत्यभिधाय सत्वरस्तस्य दारुभक्नस्य शिखरमूमिकामध्यरोहम् । उत्पतितश्च दूरमनादरप्राप्यविविधमणिदिव्यौषधिगणामेकशृङ्गवैताक्ष्यशृङ्गिणो रत्नरालाटवी प्रति प्रचलितः प्रकटितातिपटुरंहसा चटुलचलितपट्टांशुकपताकापाणिभिर्ध्वजमुर्विभाजतेव मार्गघटितानि मेघवृन्दानि दूरीकुर्वतेव गर्योबुरामूर्ध्वपथचारिणः धारणाध्यगानम्बरजलधिलङ्घनयानपात्रेण तेन प्रधावता यापितेन निर्दयं दारूभवनेनोमानो मनागपि लक्षितक्षितिधराधरसरिद्रामनगराटवीकर्पटविभागः क्षणेनैव दक्षिणं भारतार्धवसुधोपकण्ठमध्यासितवान् । अथ वृथैव शिखरामभूमावेकशृङ्गस्य तुङ्गतरुशिखरशाखाविलम इव निश्चलीभूते तत्र यात्रामङ्गविस्मितः पुरस्तादभिमुखीभूतमुल्लिखितसर्वाजप्रिया पादपप्रकाण्डसरलाभिरामश्यामवपुषमीषन्मेदुरोदरनिमिषितपक्ष्मणा परुपतारकेण सपरुषमेव किंचिञ्चक्षुषा कृतावेक्षणं दक्षिणकरगृहीतामग्रभागविधृतकतिपयकोमलच्छदामायामिनी न्यग्रोधवीरुधममीक्ष्णमुक्षिपन्तमेकमत्युग्रतेजसं पुरुषमद्राक्षम् ।

 दृष्ट्वा च किंचित्प्रन(ण)ष्टधैर्यः 'नूनमस्य प्रभावोऽयम्' इति विचिन्त्य दूरस्थितोऽपि बद्धाञ्जलिस्तमालपम्—'महात्मन् , किमेतदनिमित्तमेव स्तम्भितं त्वया मे विमानम् । किं चाप्रतस्तरलतामादाय स्थितो निवास्यसि मे गमनम् । अपसर मना(ग)प्रतो यावदहमिमां प्रापय्य पुरतः पर्वतोपकण्ठे कण्ठगतजीविका द्रविडराजदुहितरमौषधीरसबलेन विगलिताशेषविकारां करोमि । मा विनैव कारणेन विवक्षितप्राणिरक्षणोकद्यस्य मे विनता व्रज । स एवं प्रणतशिरसाप्रियवचोमिर्वारंवारमुफयाच्यमानोऽपि न यदा मार्गममुञ्चत्वदाहमुपजातखेदः सरोष इव परषाक्षरमवोचम्-'महाभाग, वपुषा दिव्य इव दृश्यसे, कर्मणा तु