पृष्ठम्:तिलकमञ्जरी.pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

न केवलमयं गन्धर्वकः । त्वमपि दृष्टा निर्विघ्ननिहितेक्षणेन दीर्घकालमस्य परमोपकारिणः प्रसादेन' इत्युदीर्य पूर्ववृत्तं चित्रपटवृत्तान्तमावेदयम् । अपृच्छं च तम् 'गन्धर्वक, तदास्मादन्तिकादुत्थाय क्व गतो भवान् । क स्थितो दिनान्येतावन्ति । किं कारणं चिरावस्थितेः। संवृत्रं कुतश्चाद्य विद्युदुन्मेष इव सहसा प्रादुर्भूतः' इति पृष्टः प्रहृष्टेन पूर्ववृत्तान्तं मया गन्धर्वका समुद्भूतपूर्वानुभूतदुःखस्मरणलबबाष्पजलबिन्दुपूर्णलोचनो विनिःश्वस्य नीचाक्षरमवोचत्—'कुमार, किं कथयामि मन्दभाग्यः । तदा विमुच्य मत्तकोकिलोपवनमध्यमयोध्यानगर्याः प्रचलितोऽहमभ्युत्सुकतया तत्रैवाहि सायाह्नसमये त्रिकूटगिरिशिखरगोचरां खेचरराजधानीमव्रजम् । प्रविष्टश्चात्र दृष्टमात्रो हृष्टमनसा मित्रवर्गेण नीतो निजावसथमुपपादितातिथिसपर्यश्च प्रदोष एव गत्वा कवर्तिनं विचित्रवीर्यमद्राक्षम् । आवेदितसर्वसंदेशश्च प्रभातसमये समासाद्य देव्या पत्रलेखयोपयाचितं शिशिरकालात्ययविहारक्षम मलयाद्रिहरिचन्दनविमानमभिलषितगन्धर्वदत्तादर्शनः काश्चिनगराभिमुखमचलम् । उत्तरीयाञ्चलनिबद्धनिश्चलसमरकेतुलेखश्च लवयित्वा लवणजलराशिमुत्तराशाभिमुखमापतम् । प्रशान्तवैराश्रमसमीपे मलयपर्वतोपान्तवर्तिनः पारावारपुलिनादुच्चरन्तमतिकरुणमाक्रन्दशब्दमाकर्ण्य मनस्यकरवम् (-क: खभावमधुरखरोऽयमखैरमेवं विलपति' इति विचिन्त्य वियतोऽवतीर्णस्तिमिरतरुतलच्छायानिषण्णामितस्ततो ललितविसस्तकेशहस्तामंसविन्यस्तवसनवरकलपान्तविषमावृतपर्योधरामधःकृतोत्सातवात्यया निश्वाससंहत्या शश्वदाबद्धशोषमघरपत्रमिव परित्रानुमश्रुधाराजलमजनमक्षिपत्राभ्यामुत्सृजन्तीमुद्दाप्पदृष्टिना समुत्सृष्टपूर्वदृष्टवन्यौषधिरसमलेपादिकर्मणा मुक्तमत्रपदापमार्जनेन पार्श्ववर्तिना