पृष्ठम्:तिलकमञ्जरी.pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। ३७७ ततोऽभिमुखविन्यस्तविलयस्तिमितचक्षुषा पश्चात्महर्षपरक्शेन गन्धर्वको गन्धर्वक इति सहासमुद्घोषिनिकषावस्थितेन तेनान्तःपुरपुरंधीजनेन परिवर्तितमुखे च विघटितपटप्रकटिताकारमवलोक्य मां झटिति कृतसप्रश्रयप्रणामे तत्र रभसप्रधावितात्, 'देवि, दिष्ट्या वर्धसे । यः पुरा विनष्ट इति शोचितः सुचिरमासीत्स संपति कुमारहरिवाहन उत्सङ्गदेशादनुपहतविग्रहो गृहादिव विनिर्गतो गन्धर्वकः' इत्याकर्ण्य चपलचेटीजनादुत्पन्नसंभ्रमा सविस्मयानन्दमासन्धाः समुत्थाय दर्शितपथा पुरस्थितेन तेनैव शुद्धान्तचेटीजनेनान्येन च यथाप्रवृत्तिश्रवणादुचलितेन चटुलगतिना समासन्नपरिजनेनानुगम्यमाना मलयसुन्दरी द्वितीया देवी तिलकमञ्जरी तत्रैवागच्छत् । अभ्युद्गता च प्रकटितादरेण मया संभ्रान्तपरिचारिकोपनीते सविभ्रमब्रीडमासने न्यविक्ष्यत । अविलोक्य च मां पुनः पुनस्तथादरविशेषसंपादिताहारमामोदिहरिचन्दनद्रवानुलिप्ससर्वाङ्गमाबद्धमालतीकुसुमशेखरमुपनीतदिव्यदुकूलरनालंकारमभ्यर्णोपविष्टप्रेष्ठसध्रीचीजनं जातपरितोषा स्तोकमुपसृत्य विहितप्रगाममास्य गन्धर्वकमन्तिके न्यवेशयत् । परामृश्य च पुनः पुनः प्रणतशिरसमग्रहस्तेन मौलौ मलयसुन्दर्याश्चरणयोरपातयत् । ततोऽहम् 'देवि, पश्य । त्वत्प्रसादीकृतेन दिव्यपटरत्नेन पुनरसंभावितदर्शनं कुतोऽप्यानीय दर्शनायता परमबन्धुकल्पमेनं गन्धर्वकमभिप्रेतार्थतोऽधिकं झटित्येव मे संपादितमभिलषितम्' इत्यवोचम् । श्रुत्वा च मद्वचनमिदमुपजातविस्मया खेचरेन्द्रतनया विवर्य किंचिद्वदनमव्यक्तया वाचा काश्चिराजपुत्रीमपृच्छत्-'आर्ये, पूर्वमपि किं कुमारेण दृष्टो गन्धर्वकः ।' सा प्रत्यवादीत्— 'सखि, कुमारमेव पृच्छ। नाहमवगच्छामि वृत्तान्तमेतम् । ततोऽहमवदम्-'देवि,