पृष्ठम्:तिलकमञ्जरी.pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। त्वत्सकाशादुपागतया मृगाङ्कलेखया समाख्यातं यथा किल परैरलक्षिवतनुः कुमारो दिदृक्षते नगरमिति । तद्यदि सत्यमेतत्तदमुना स्पर्शानुमेयेन निशीथनाना दिव्यपटरनेन प्रावृताङ्गः पश्य त्वम् । अयं हि मे हिमाचलशिखरसद्मनः सिद्धनिम्नगासिन्धुनिर्गमादुउदक्पूर्वापरतटस्थ प्रसृतसर्वपीनधुलोर्मिसंघातघट्टिताशाकरिकरटकूटस्य विष्टपत्रितयविख्यातशोभासंपदः पमनानो महाङ्गस्यैकदा समं सहृदयसुहृजनेन रामणीयकमवलोकयन्त्यास्तदडपङ्कजवननिवासिन्या श्रिया समाहूय सादरं समुपनीतः । प्रकटिता चास्य परमाश्चर्यकारिणी किमन्यदप्यानुभावसंपादनेन संवीतविग्रहमागहव्यापृताक्षोऽपि लोकः स्तोकमपि नालोकयति देहिनम् , अभिमूलाक्रान्तभोगनालोऽपि न दशति दन्दशूकः, निःशूकपुरुषसरोषपातितास्तिलमात्रमपि कृन्तन्ति न कृपाणधासः, कण्ठावधि निपीतान्यपि न वेविषत्यङ्गं विषाण्यजङ्गमानि, शश्वदवलोकितच्छिद्राण्यपि न जातुचिच्छलयन्ति यातूनि, जाता अपि जरामवयवेषज्झन्ति झगिति संनिपातज्वरपुरःसरा रोगाः । किंवानेन बहुभाषितेन । खभावदुःप्रतिषेधानीषदप्यलब्धपुनरनुग्रहानमोघभाषिभिर्दिव्यपुरुषैः सरोषमारोपितानपहरति दीर्घशापानपि स्पर्शमात्रेणायमिति निगद्य मद्गात्रमुत्तमाङ्गेन सह तेनाच्छादयत् । अथ शिरीषकेशररेणुपरमाणुभिरिवारब्धेन शरदरविन्दकोशमध्यादिव लब्धजन्मना सुधारसकुण्डकुरिवाकृष्टेन मलयाद्रिहरिचन्दनच्छाययेव छुरितेन मूर्छामिव जनयता निद्रामिवानयता क्षीरसागर इव नपयता निर्वाणसौख्यसंख्यामिवाचक्षाणेन प्रह्लादिना तदीयसंस्पर्शेन परवशीकृतं बिनतो ममाजमुसनदेशादलक्षितोद्मः सहसैव तं समुत्क्षिप्य दिव्यपटमग्रहस्ताभ्यामुदप्रयौवनः पुमानप्रतोऽभवत् । अवेक्ष्य च तमादौ भयविहस्तेन-