पृष्ठम्:तिलकमञ्जरी.pdf/३९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। ३७९ तापसीजनेन शोच्यमानामवनिपीठप्रसारितनिरायताङ्गिद्वयामुदीर्णदुःखातिभारगदव्याहारेण दूरनिर्झरिणा खरेण समकालसंहृतसमस्तचिरकालचिन्तितमनोरथबातमन्तःकरणमाथिभिः करुणवचनैः पुनः पुनर्विधिमुपालभमानामीषदलितयोवनामनिन्धसर्वाङ्गीमेकामानामद्राक्षम् । उद्भूतपरमोद्वेगश्च भूत्वा पुरस्तामपाक्षम्—'आर्ये, किमर्थमाक्रन्दसि इति । सा तदेव वचनमाकर्ण्य सत्वरोन्मीलितेक्षणा निपत्य पादयोरुपर्युपरचितकरसंपुटा सदैन्यमवदत्-'पुत्र, किं ब्रवीमि । कुरु मे परित्राणमखिलगोत्रस्य । देहि दुर्लभैकापत्यप्राणरक्षाभिक्षाम् । इयमशेषदक्षिणापथक्षोणिपालस्य राज्ञः कुसुमशेखरस्य सर्वखभूता सर्वशुद्धान्तरमणीशिरोमणेरुदरसंभवा गन्धर्वदत्ताया मलयसुन्दरी नाम दुहिता। शत्रुविगृहीतेन पित्रा किमपि निश्चित्य चेतसा मन्त्रमर्धरात्रसमये कृताभ्यर्थनेन समर्प्य मे सहसैव निष्कासिता काञ्चीनगरात् । अलक्षिता च नागरलोकेनानीत्वा तदनुजीविभिः स्थापितात्र निर्जने तापसारण्ये । प्रतिपन्नमुनिकन्यकावेषा च कंचित्कालमपगतचापला निश्चलैवावस्थितास्मिन्नद्य पुनरकस्मादेव वञ्चयित्वा मच्चक्षुरेकाकिनी हेतुना केनाप्यनेकश्वापदाकीर्णमर्णवोपकण्ठपुलिनमिदमागता दृष्टा च । पृष्ठत एव निर्गत्य निपुणमन्वेषयन्त्या मयारण्येऽस्मिन्नुदीर्णरोषया च निर्भसिता बहुप्रकारैः प्रथममुपजातपश्चात्तापया च पश्चात्सुचिरमनुनीतभीतया च श्रान्तेत्यविश्रान्तया सिक्ता कमण्डलुजलेन तथापेक्षया नोत्तरं मे दत्तम् । अधुना च पश्यन्त्या एव मे विगतचेतना संवृत्ता। दृष्ट्वा च झटिति प्रन(ण)ष्टचेष्टामिमामचिन्तितोपनतकष्टेष्टविरहव्याकुलीकृता कर्तुमसमर्था प्रतीकारमेवं पापकारिणी विलपितुमारब्धा । निशम् चेदं वचनमस्याः सशोफविस्मयः स्थित्वा मुहूर्तमवहितेन चक्षुषा तस्याः