पृष्ठम्:तिलकमञ्जरी.pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३६४ काव्यमाला।

विप्लुत्य तेषु तेषु प्रतिनिवृत्ताश्रमेण वा दिव्यनगरीदर्शनकुतूहलेन वा शक्रावतारादितीर्थवन्दनाभिलाषेण वाग्रतो दृष्टिपथमागतामयोध्यापुरीमलंकरिष्यत्यात्मगमनेन, बायोद्यानविहिताश्रया च तत्र सेवाशया दृष्टुमागतं पूर्वदृष्ट इति मामाया दृष्टया संभावयिष्यति, कृतोपसर्पणं च स्नेहेन विमुखीभूय न विमानयिष्यति, प्रस्तुतालापं च शनकैः प्रतिवचनदानेन कृतार्थीकरिष्यति, विहाय प्रस्तुतकथामन्यत्र वा न यास्यति, ततः क्रमेण लब्धप्रणयोऽहमवसरागतमात्मधिषणानुसारेण सर्वमेतत्प्रक्ष्यामि । अधुना तु मे दृष्टमात्रस्य स्वदेशं प्रतिवासं प्रस्थितस्य पुनदर्शनमेकमपहाय नान्यत्किमपि वक्तुं युक्तम्' इत्युक्तवति मयि संस्मृत्य तत्पुरावृत्तमात्मीयमप्रागल्भ्यविलसितमुद्भिनलज्जास्मिता मत्पुनर्दर्शनप्रभभीतेव सा सहसैवोदतिष्ठत् ।

 परिक्रम्य चायतनमण्डपे मुहूर्तमनुगम्यमाना सहचरीभिश्चतुरिकोपदिश्यमानमार्गमवानभूमिकापृष्ठमारोहत् । तत्र च प्रतिक्षणं मयि क्षिसेक्षणा कुर्वती मसृणशीतलेषु माणिक्यमण्डपिकाशिलास्तम्भेषु मुक्तसीत्काराणि सविकारपरिरम्भणानि, वाचयन्ती श्रव्यभाषया तत इतः शृङ्गारसाराणि सत्कविसुभाषितानि, अभिलिखन्ती भित्तिभागेष्वमरानुरागाणि विद्याधरपक्षिमृगमिथुनानि, नर्तयन्ती चलितवाचालवलयश्रेणिना हस्ततालशब्देन विषमवेल्ललतावातायनगतानायतनबर्हिणान् , उपहसन्ती प्रपञ्चितालीकगुणस्तवाभिश्चतुरोक्तिभिश्चतुरिकानिवेदितां मदीयपल्लवपल्यावरचनाम् , आमती कराङ्गुलीयन्त्रमुक्तैर्मुक्ताफललेष्टुमिर्गवाक्षकोटरेषु कोपाविष्टसहचरीचाटुघटनापरान्पारापतवियन्, बध्नती घनस्तनद्वन्द्वशालिनीनां शालभञ्जिकानामधिकण्ठमवतार्य चॆटीकण्ठतो हठादानाभिलम्बान्मणिमालम्बान् , कुटिलयन्ती कराङ्गुलि-