पृष्ठम्:तिलकमञ्जरी.pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी

विवर्तनेन प्रियकराष्टिसरलाः सहाससहचरीललाटलेखालकलताः,विदधती सार्द्रदन्तक्षतेष्वधरपत्रेषु सानुबन्धमारब्धहासोन्मिश्रपुष्कलशुष्करुदितानामासन्नपरिचारिफाणामाक्रम्य चन्दनपोपलेपम् , निक्षिपन्ती सशब्दकृतचुम्बना मुहुर्मुहुचिबुकमुन्नमय्य परिजनोपनीतानां बन्धुजनबालकानां मुखे निजमुखेन ताम्बूलम् , विरचयन्त्यशक्तमश्रस्तमप्यादरेण दरप्रकाशितपीन भुजमूलस्तनतटा पुनः पुनः कन्दुकक्रीडाप्रक्रमे पुष्पापीडमतिदीर्घमस्थात् । उत्तीर्य च कथंचिञ्चिरावस्थाननिर्विष्णपरिजनानुरोलवमात्रमध्येन पुनरप्यन्तिके मलयसुन्दर्याः समागच्छत् । उपविश्य चात्राधिकृतैर्गमनायामात्यवृद्धैः पुनः पुनरनुबध्यमाना सखेवमुत्थाय मन्थरैश्चरणविन्यासैः प्रत्यावासमचलत् ।

 प्रस्थितायां च तस्यां सह तया प्रस्थाय कतिचित्पदानि प्रतिनिवृत्त प्रभूतवेत्रधारीपरिवृता प्रधानद्वारपाली मन्दुरा नाम सत्वरमुपेत्य द्रविडराजतनयामवादीत्- 'भर्तृदारिके, देवी तिलकमञ्जरी विरचिताञ्जलिपुटा विज्ञापयति-अद्य तावत्कुमारेण सहितया समागत्य सख्या गृहदर्शनानुग्रहेण सुचिरकालात्सौख्यभागिनी कर्तव्याहम्' इति ।काञ्चीपतिसुतात्र कर्तव्यमूढा स्तोककालमवनतमुखी स्थित्वा 'मन्दुरे,कन्दफलमुजो मद्विधस्य शून्यारण्यवासिजनस्य गर्हितमीश्वरगृहेषु गमनम् । कुमारस्तु गच्छतु । अनुभवतु सख्या क्रियमाणमभ्यागतातिथ्यम्' इत्यभिधाय तां व्यसर्जयत् ।

 गतायां च तस्यामल्पखेचरीवृन्दपरिगता गृहीतवेत्रच्छत्रचामरेण पश्चाप्रधावता परिजनेनानुगम्यमाना मृगाङ्कलेखा समागत्य सत्वरमावादीत्.-'भर्तृदारिके, तिष्ठत्वेष तावदुचितानुचितयोर्विचारः। उतिष्ठ शीघ्रम् । एषा द्वारतोरणस्तम्भलमा सुचिरमूर्ध्वावस्थानखिन्नाभिनभन्छ-