पृष्ठम्:तिलकमञ्जरी.pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी

तु किंचिदुपजातवैलक्ष्या क्षणमधोमुखीभूय विहिताकारसंवृतिरधःकृत्य साध्वसमवलम्ब्य धैर्यमपसार्य विभ्रमं निरस्य मनसिनोल्लासमकमवधार्य दूरारुढमात्मनः प्रभुत्वमालोच्य च सतामौचित्यकारितामतिप्रागल्भ्येव तिर्यप्रसारितभुजलतासरलसुकुमारारुणालीपरिगृहीतमुदधिवेलेव विद्रुमकन्दलीवलयितमुदप्रममिनवं शङ्खमादाय ताम्बूलदायिकाकरतलादन्तःस्फुरद्विः स्फटिकघवले खमयूखनिर्गमैर्द्विगुणीकृतान्तर्गतस्थूलकपूरशकलं स्वहसेन ताम्बूलमदात् ।

 दृष्ट्वा च तां कृतसमतोचितक्रियामक्रमोपचीयमानहर्षरोमाचा काशीविषयाधिपसुता प्रसन्नमनसं मामवोचत्-'कुमार, कल्लेऽपि विद्याधरलोक इह लब्धपताका कलासु सकलाखपि कौशलेन वत्सा तिलकमञ्जरी । यदि च कौतुकं ततश्चित्रकर्मणि वीणादिवाये लास्यताण्डवगतेषु नाट्यप्रयोगेषु षड्जादिखरविभागनिर्णयेषु पुस्तककर्मणि द्रविडादिषु पत्रच्छेदभेदेष्वन्येषु च विदग्धजनविनोदयोम्येषु वस्तु,विज्ञानेषु पृच्छैनाम् , येन युवयोः शृण्वती चतुरं परस्परालापमहमपि मुहूर्तमवगच्छामि निवृतेः खरूपम्' इत्यमिहितस्तया निभृतमाखायकंचित्कालमहमवोचम्—'कानीराजतनये, अद्यापि मुञ्चित्तवृत्तेरविज्ञातत्वादेवि, करोमि कथमप्रस्तुतं वस्तुविचारम् । इतरोऽपि लोकः पायेण न भजत्याभिमुख्यम् , न समीहत्ते सांनिध्यम् , न बहु मन्यते खिरावसानम् , नाकर्णयति वचनम् , न प्रयच्छत्युत्तरम् । नितरामपि कृतानुवृत्तेरसंजातपरिचयस्य परस्य किं पुनर्निसर्गनिनेह ईश्वरजनः ।तपदि कदाचिदत्रमवती नमःप्रचारेण प्रस्थिता दक्षिणाशाविभूषणेषु त्रिकूटमलयादिषु नगेन्द्रनिश्चलनिबद्धनीडगरुडपोतोद्वासितफणिषु लव: माधिरोधोवनेषु दृश्यमानदर्पान्धदिरिद्धपद्वन्द्वयुद्धेषु द्वीपान्तरेषु