पृष्ठम्:तिलकमञ्जरी.pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला

निर्निमित्तमेव प्रशान्तिमुपगतम् , किं च त्यासर्वान्यकरणीया प्रातरेवायतनमागता' इत्युदीर्य मयि निक्षिसलोचना लज्जावनतबदनामदत्तो- घरामेव तां पुनरवादीत्-'तिलकमञ्जरि, विशेषदर्शितादरा क्षणमितो देहि दृष्टिम् । स एष सुगृहीतनामा भरतवर्षार्धमूभुजो महाराजमेषवाहनस्य प्रथमसूनुरविकलचतुःषष्टिकलाश्रयतया चतुर्गुणेनाधिकः समासादितसमप्रकलस्य शीतरश्मेरमृतमयखभावः कुमारो हरिवाहन इति न्याहते तया सलीलपरिवर्तितमुखी तत्क्षणमेव सा तीक्ष्णतरलायतां बाणावलीमिव कुसुमबाणस्य,विवृत्तवालशफरस्फारसंचारो तरक्रमालामिव शृङ्गारजलधेः, धवलीकृतदिगन्तां ज्योरखामिव लावण्यचन्द्रोदयस्य,धैर्यध्वंसकारिणीमुल्कामिव रागहुतमुजः, संभ्रमोल्लासितैकमूलतामाज्ञामिव यौवनयुवराजस्य, मुकुलितां मदेन, विस्तारितां विस्मयेन, प्रेरिताभभिलाषेण, विषमितां ब्रीडया, दृष्टिमिवामृतस्य, सृष्टिमिवासौख्यस्थ,प्रकृष्टान्तःप्रीतिशंसिनीं वपुषि मे दृष्टिमसृजत् । दृष्ट्वा च तां प्रकटिततथाभूतविभ्रमामुपलक्षितानुरागा रूपेण वयसा विभवेन वेषपरिग्रहेण प्रभुतया गृहीतवाक्यत्वेन लावण्यसौभाग्यादिगुणलक्ष्म्या च लब्धसाम्या मृगाङ्कलेखा नाम तिलकमञ्जर्याः प्रियसखी विहस्य मन्दं मलयसुन्दरीमवोचत्—'भर्तृदारिके, यत्त्वया दिष्टममृतात्मकः कुमार इति, तत्तथ्यमिति निश्चितं मया । स्मृत्वावचतुरिकावदननिर्गतेषु क्षरस्सु अवसि मनाक्षरेष्विव महाभागस्वास्थ नामवर्णेषु तू!चीर्णदारुणज्वरवेदनायाः प्रलयदिनकरांशुकर्कशं क्रसि(शि)मानमायान्तमेकपद एव देव्यास्तमन्तःसंतापमाकर्ण्य चेदमीषद्विहसिताक्षी दक्षिणक्षितिपतनया । मृगाङ्कलेखे, किमत्राश्चर्यमविचार्य-महिमा महात्मनामनुमावः' इसुदीर्य तूष्णीकाभवत् । तिलकमञ्जरी