पृष्ठम्:तिलकमञ्जरी.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४८ काव्यमाला।

दूर एवासौ । सुचिरमुपभुजामतिप्राज्यानि जीवलोकसुखानि । अहं पुनरिहैव कथमपि पुण्ययोगादासादिते दिव्यभूभृति कृतप्रतनियमोपवासा तरुत्वम्बसनधारिणी कन्दफलमूलाशना त्रिकालमर्चयन्ती देवमेवमेवातिवाहयिष्यामि जन्म । गता मे खविषया सर्वापि चिन्ता । केवलमिदं क्षिणोति चेतः, स ते निरन्तरप्रसादललितः कदाचिदप्यदृष्टविरहः शिबिरवर्ती प्रणयिलोकः क्षणमात्रपरिचितस्य वजपाषाणपरुषमनसो मादृशस्यापि निसर्गनिःहस बनवासिवर्गस्य परमप्रीतिदायिना त्वदीयदर्शनेन सहसैव दूरीकृतः का दशामनुभविष्यति । कथं च त्वदेकावलम्बनः स ते गुरुजनः क्रमेणाकर्ण्य कष्टामिमां दुष्टवारणापहारवार्तामातहृदयोऽपि विघटमानं सुकुमारमात्महृदयं धारयिष्यति' इति भाषिणी विहस्य सावज्ञमिव तां प्रत्यवोचम्-'मलयसुन्दरि, सुदूरमपि विषण्णेन धीमता तदेव चिन्त्यं वस्तु यदुपायसाध्यम् । अनेन तु तितान्तनिष्फलारम्भेण चिरमपि ध्यातेन केवलं क्लेश एव हृदयस्य । साध्याहरत्--'कुमार, किमशक्यमस्य । लेखप्रदानसाध्यमेतत्ते प्रयोजनम् । अहमपि यावदध्यवस्यामि । किं तु विधिवशादवसरेऽत्र पक्षिमात्रोऽपि निकटे नास्ति कश्चिन्नभश्चरो यस्त्वदीयवृत्तान्तमावेदयेत्'

इति वदन्त्यामेव तस्यामनास्या(श्या) नशैवलश्यामपक्षतिरक्षुद्रविट्ठमारुणेन तत्क्षणोदितादर्कबिम्बादिवोत्कीर्णेन कुटिलकोटिना चक्षुपुटेन प्रैसूतमरकतांशुसंतान इव चेतनो जात्यपद्मरागसिवर्णराजिना द्विजातिशब्देनेवोद्भासितः । कण्ठभागेन भयवशोद्धान्तलोचनामिः खभाषया वार्यमाणोऽप्यकृशमाकोशन्तीभिः शुकीभिर्निकटचारिणो नीलपाटला-


'.. 'सा ब्याहरत् ' इति स्यात्, २. प्रसूत उत्पादितः. ३. यो वर्णा ब्राह्मणक्षत्रियवैश्याः, नीलकुष्णरक्ताश्च