पृष्ठम्:तिलकमञ्जरी.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी।

त्सरत्तोत्पलादिव कमलिनीखण्डादेत्य निजयूशन्मसृणमसृणोत्क्षिप्तचरणो रुचिरमूर्तिरेकः शुकशकुनिरविशङ्कितमवादीत्-'महाभागे किमित्यभाग्येव खेदमुद्रहस्येवम् । एष प्राप्तः पक्षिरूपी नभश्वरोऽहम् । आशापय मया यक्कर्तव्यम्' इत्यभिहिते तेन समयविस्मया मलयसुन्दरी विहस्य चक्षुषा मे वदनमद्राक्षीत् । अहं पुनरविस्मितः सादरमवेक्ष्य तम् 'नैष पक्षिमात्रः, विशिष्टजातिः कश्चिदयम्' इति विचिन्त्य विहितनिश्चलावस्थानस्याग्रतो गैरिकरसेन किंचिदापाण्डुरत्वचि समासन्नताडीतरुदले कराङ्गुलिनखाग्रलेखन्या सुरेखाक्षरं लिखित्वा लेखमक्षिपम् । अवोचं च तम्---'अहो महात्मान, निसर्गेणैव पक्षपातिनः प्रसन्नमुखराराद्युते()र्विनयवतश्च भवतः पुरस्तादतिशयपश्चितोपचारमुच्चार्यमाणं वचनमबुधत्वमेवावबोधयति । अतो विवक्षितमेव निजकार्यमाचक्षे—'इतः क्षोणीघरारण्या- ककुभि दक्षिणस्यामनुपलक्षिताथ मानं कियन्तमपि गत्वा भूमिभागमगणितश्रमेण कल्याणभागिना कामरूपाख्यमण्डलख्यातनामानमाश्य(श्रित्य लौहित्यनदमावासितबलस्य मत्सेनाधिपतेः कमलगुप्तस्य गुप्तेन भूत्वा सत्वरमयं प्रापणीयो लेखः' । स तु यदादिशसि' इत्युदीर्य दार्शितादरो दूरच्यावृतबदनकोटिना चक्षुपुटेन लेखमादाय तमुदमुखः

समुदपतत् ।गते च तत्र त्रिकूटाधिष्ठितां काष्ठामधिगतपहर्षविलयः ससितम्-आदिवम्-मलयसुन्दरि, किमेष चिरपरिचितः शुकशकुन्तिर्येन तेवचनमुश्चरितमात्रमेवावधार्य बुद्धिमानिव पुमानचकितमनाः समागत्य


-

. 'प्रसन्मुखराज)द्युतेः' इति पाठे नु“प्रसक्तस्य मुखरूपिणो राज(ज्ञः) चन्द्रस्य द्युतिर्यस्य' इति व्याख्या संभवति.